भारतकोश
गोपथ ब्राह्मण (अथर्ववेद - क्षेमकरणदास त्रिवेदी हिन्दी भाष्य)

गोपथ ब्राह्मण (अथर्ववेद - क्षेमकरणदास त्रिवेदी हिन्दी भाष्य)

Gopatha Brahmana with Hindi Bhashya by Pt. Kshemkarandas Trivedi

महर्षि गोपथ / पं. क्षेमकरणदास त्रिवेदी द्वारा

स्रोत: चौखम्बा संस्कृत प्रतिष्ठान · चौखम्बा संस्कृत प्रतिष्ठान · 1950 (उद्गम)

DevanagariSanskritpublished600 पृष्ठ

पृष्ठ 545, कुल 600 में से

संदर्भ में पढ़ें
पृष्ठ 545

गोपथब्राह्मणे उत्तरभागे प्र० ६ । क० ६ ॥ ५०७ ४। २४ । ११ ॥ (इन्द्र) हे इन्द्र ! [ बड़े ऐश्वर्य वाले राजन् ] (नु नु) अब ही (स्तुतः) स्तुति किया गया और (गृणानः) उपदेश करता हुआ तू (नद्यः न) नदियों के समान (जरित्रे) स्तुति करने वाले के लिये (इषम्) अन्न (पीपेः) बढ़ा, (हरिवः) हे उत्तम घोड़ों वाले ! (ते) तेरे लिये (नव्यम्) अधिक नवीन (ब्रह्म) अन्न (अकारि) किया गया है, (धिया) बुद्धि वा कर्म के साथ हम (रथ्यः = रथ्याः) उत्तम रथों वाले और (सद.साः) सेवकों वाले (स्याम) होवें ॥ कण्डिका ६ ॥ तदाहुः, कथं द्वथुक्थो होतैकसूक्त एकोक्था होत्रा द्विसूक्ता इति । असौ वै होता योऽसौ तपति, स वा एक एव, तस्मादेकसूक्तः । स यद्दिध्यातो द्वाविवां भवति, तेज एव मण्डलं भा अपरं शुक्लमपरं कृष्णं, तस्माद् द्वथुक्थः । रश्मयो वाव होत्राः, ते वा एकैकं, तस्मादेकोक्थाः । तद्यदेकैकस्य रश्मेद्वौ द्वौ वर्णौ भवतः, तस्माद् द्विसूक्ताः । संवत्सरो वाव होता, स वा एक एव, तस्मादेकसूक्तः । तस्य यद् द्व्व्यान्यहानि भवन्ति, शीतान्यन्यान्युष्णान्यन्यानि, तस्माद्व्युक्थः । ऋतवो वाव होत्राः ते वा एकैकं, तस्मादेकोक्थाः, तद्यदेकैकस्यर्त्तौ द्वो द्वो मासो भवतः, तस्माद् द्विसूक्ताः । पुरुषो वाव होता स वा एक एव, तस्मादेकसूक्तः । स यत्पुरुषो भवत्य- न्यथैव प्रत्यङ् भवत्यन्यथा प्राङ्, तस्माद् द्वथुक्थः । अङ्गानि वाव होत्राः, तानि वा एकैकं, तस्मादेकोक्थाः । तद्यदेकैकमङ्गं द्युतिर्भवति, तस्माद् द्विसूक्ताः । तदाहुः, यद् द्वयुक्थो होतैकसूक्त एकोक्था होत्रा द्विसूक्ताः, कथं तत् समं भवति, यदेव द्विदेवत्याभिर्यजन्ति अथो यद् द्विसूक्ता होत्रा इति ब्रूयात्, तदाहुः, यदग्निष्टोम एव सति यज्ञे द्वे होतुरुक्थे अतिरिच्येते, कथ ततो होत्रा न व्यवच्छिद्यन्त इति । यदेव द्विदेवत्याभिर्यजन्ति, अथो यद् द्विसूक्ता होत्रा इति ब्रूयात्, तदाहुः, यदग्निष्टोम एव सति यज्ञे सर्वा देवताः सर्वाणि छन्दांस्याप्याययन्ति, अथ कतमेन छन्दसायातया- मान्युक्थानि प्रणयन्ति, कया देवतयेति । गायत्रेण छन्दसाग्निना देवतयेति ब्रूयात् । देवान् ह यज्ञं तन्वानान् असुररक्षांस्यभिचेरिरे यज्ञपर्वणि, यज्ञमेषां हनिष्यामस्तृतीय- सवनं प्रति तृतीयसवने ह यज्ञस्त्वरिष्टो बलिष्ठः प्रतनुमेषां यज्ञं हनिष्याम इति । ते वरुणं दक्षिणतोऽयोजयन्, मध्यतो बृहस्पतिमुत्तरतो विष्णुम् । तेऽब्रुवन् एकैकाः स्मः, नेदमृतुसहामह इति, स्तु [ अस्तु ] नो द्वितीयो येनेदं सह व्यश्नवामहा इति । तानिन्द्रोऽब्रवीत्, सर्वे मद्दितीया स्थेति । ते सर्व इन्द्रं द्वितीयाः, तस्मादैन्द्रा- वारुणमैन्द्राबार्हस्पत्यमैन्द्रावैष्णवमनुशस्यते । द्वितीयवन्तो ह वा एतेन स्वा भवन्ति, द्वितीयवन्तो मन्यन्ते, य एवं वेद ॥ ६ ॥ कण्डिका ६ ॥ होताओं और होत्रक लोगों के उक्थों का वर्णन और असुरों से यज्ञ की रक्षा ॥ (तत् आहुः, कथं होता द्वयुक्थः एकसूक्तः होत्राः एकोक्थाः द्विसूक्ताः इति) वे कहते हैं—कैसे होता दो उक्थ वाला और एक सूक्त वाला होता है, और होत्रक