भारतकोश
गोपथ ब्राह्मण (अथर्ववेद - क्षेमकरणदास त्रिवेदी हिन्दी भाष्य)

गोपथ ब्राह्मण (अथर्ववेद - क्षेमकरणदास त्रिवेदी हिन्दी भाष्य)

Gopatha Brahmana with Hindi Bhashya by Pt. Kshemkarandas Trivedi

महर्षि गोपथ / पं. क्षेमकरणदास त्रिवेदी द्वारा

स्रोत: चौखम्बा संस्कृत प्रतिष्ठान · चौखम्बा संस्कृत प्रतिष्ठान · 1950 (उद्गम)

DevanagariSanskritpublished600 पृष्ठ

पृष्ठ 92, कुल 600 में से

संदर्भ में पढ़ें
पृष्ठ 92

Here is the accurate transcription of the provided Vedic Brahmana page into pure Markdown in Unicode Devanagari.

५४ गोपथब्राह्मणे पूर्वभागे प्र० १ । क० ३१ ॥ वाकोवाक्यम् इति ब्राह्मणम् ) सभी [ उपर्युक्त ] प्रश्नोत्तरात्मक स्थलों में यही ब्राह्मण [ ब्रह्मज्ञान ] है ॥ ३० ॥ भावार्थः-मनुष्य को चाहिये कि ओम् को सर्वाधार जानकर उसका चिन्तन करता हुआ आत्म-सामर्थ्य बढ़ावे और विषय को भली भांति समझ कर ठीक ठीक अर्थ का ग्रहण करे ॥ ३० ॥ कण्डिका ३१ ॥ एतद्ध स्मैतद् विद्वांसमेकादशाक्षमौद्गल्यं ग्लावो मैत्रेयोऽभ्याजगाम । स तस्मिन् ब्रह्मचर्यं वसतो¹ विज्ञायोवाच किं स्विन्मर्यादा² अयं तं मौद्गल्यो अध्येति यदस्मिन् ब्रह्मचर्यं वसतीति तद्धि मौद्गल्यस्यान्तेवासी शुश्राव स आचार्यायाव्रज्याचचष्टे, दुरधीयानं वा अयं भवन्तमवोचद्योऽयमद्यातिथिर्भवति । किं सोम्य विद्धानीति । त्रीन् वेदान् ब्रूते भो३ इति तस्य सौम्य यो विस्पष्टो विजि- गीषोऽन्तेवासी तन्मे ह्वयेति, तमाजुहाव, तमभ्युवाचासाविति भो३ इति किं सोम्य त आचार्य्योऽध्येतीति, त्रीन् वेदान् ब्रूते भो३ इति, यन्नु खलु सौम्यासमाभिः सर्वे वेदा मुखतो गृहीताः कथन्त एवमाचार्य्यो भाषते कथं नु शिष्टाः शिष्टेभ्य एवं भाषेरन् यं ह्येनमहं प्रश्नं पृच्छामि न तं विवक्ष्यति न ह्येनमध्यैतीति । स ह मौद्गल्यः स्वमन्तेवासिनमुवाच, परेहि सोम्य ग्लावं मैत्रेयमुपसीदाधीहि भोः सावित्रीं गायत्रीञ्चतुर्विंशतियोनिं द्वादशमिथुनां यस्या भृग्वाङ्गिरसश्चक्षुर्यस्यां सर्व- मिदं श्रितं, तां भवान् प्रब्रवीत्विति स चेत्सोम्य दुरधीयानो भविष्यत्याचार्य्योवाच ब्रह्मचारी ब्रह्मचारिणे सावित्रीं प्राहैति वक्ष्यति, तत्त्वं ब्रूयात् दुरधीयानन्तं वै भवान् मौद्गल्यमवोचत् स त्वा यं प्रश्नमप्राक्षीन्न तं व्यवोचः पुरा संवत्सरादार्त्ति- मार्कुप्स्यसीति ॥ ३१ ॥ कण्डिका ३१ ॥ मौद्गल्य और मैत्रेय की कथा ॥ ( एतद् ह स्म एतत् ) यह बहुत प्रसिद्ध है— विद्वांसम् एकादशाक्षम् मौद्गल्यम् ग्लावः मैत्रेयः अभ्याजगाम ) विद्वान् [ दो कान, दो आंख, दो नथने, एक मुख, एक ब्रह्मरन्ध्र एक नाभि, एक उपस्थ एक पायु ] ग्यारह इन्द्रियों से युक्त शरीर वाले [ सर्वथा स्वस्थ ] मौद्गल्य [ मुद्गल ऋषि के सन्तान ] के पास ग्लाव [ चन्द्र- आत्मज्ञानफलम् (पदम्) सुप्तिङन्तं पदम् (पा० १ । ४ । १४) (विषयी) इन्द्रियगोचरज्ञानयुक्तः । ( वाकोवाक्यम् ) क० २१ द्र० । ३१–( एकादशाक्षम् ) अक्षू व्याप्तौ—अच् । नासिकाश्रोत्रनेत्राणां द्वयं द्वयं मुखमेकं ब्रह्मरन्ध्रमेकं नाभ्या सहाधःस्थानि त्रीणि, इत्थमेकादश अक्षाणि इन्द्रि- याणि यस्मिन् तच्छरीरम्, ततः अर्शआद्यच् । एकादशेन्द्रिययुक्तशरीरवन्तं १. पू० सं० "वसतीति" इति पाठः । सम्पा० ॥ २. अत्र जर्मनसंस्करगे 'मर्या' इति पाठः । सोऽपि युक्तः । तथा च "मर्या इति मनुष्यनाम मर्यादामिधानं वा स्यात् । मर्यादा मर्येरादीयते" इति निरुक्तम् ४ । २ ॥ सम्पा० ॥