भारतकोश
गोपथ ब्राह्मण (अथर्ववेद - क्षेमकरणदास त्रिवेदी हिन्दी भाष्य)

गोपथ ब्राह्मण (अथर्ववेद - क्षेमकरणदास त्रिवेदी हिन्दी भाष्य)

Gopatha Brahmana with Hindi Bhashya by Pt. Kshemkarandas Trivedi

महर्षि गोपथ / पं. क्षेमकरणदास त्रिवेदी द्वारा

स्रोत: चौखम्बा संस्कृत प्रतिष्ठान · चौखम्बा संस्कृत प्रतिष्ठान · 1950 (उद्गम)

DevanagariSanskritpublished600 पृष्ठ

पृष्ठ 95, कुल 600 में से

संदर्भ में पढ़ें
पृष्ठ 95

गोपथब्राह्मणे पूर्वभागे प्र० १ । क० ३२ ॥ ५७ पुरा संवत्सरादार्त्तिमाकृष्यसीति । स ह मैत्रेयः स्वानन्तेवासिन उवाच यथार्थं भवन्तो यथागृहं यथामनो विप्रसृज्यन्तां दुर्धीयानं वा अहं मौद्गल्यमवोचं स मा यं प्रश्नमप्राक्षीन्न तं व्यवोचं, तमुपैष्यामि शान्तिं करिष्यामीति । स ह मैत्रेयः प्रातः समित्पाणिर्मौद्गल्यमुपससादासावाहं भो मैत्रेयः किमर्थमिति दुर्धी- यानं वा अहं भवन्तमवोचं त्वं मा यम्प्रश्नमप्राक्षीर्न तं व्यवोचं त्वामुपैष्यामि शान्तिं करिष्यामीति, स होवाचात्र वा उपेतश्च सर्वञ्च कृतं पापकेन त्वा यानेन चरन्तमाहुरथोऽयं मम कल्याणस्तं ते ददामि तेन याहीति । स होवाचंतदेवात्रा- त्विषञ्चानृशंस्यञ्च यथा भवानाहोपायामित्येवं भवन्तमिति तं होपेयाय तं होपेत्य पप्रच्छ किँस्विदाहुर्भोंः सवितुर्वरेण्यं भर्गो देवस्य कवयः किमाहुर्धियो विचक्ष्व यदि ताः प्रविश्य प्रचोदयात्सविता याभिरेतीति । तस्मा एतत् प्रोवाच वेदाश्छन्दांसि सवितुर्वरेण्यं भर्गो देवस्य कवयो- ऽन्त्रमाहुः कर्माणि धियस्तदु ते ब्रवीमि प्रचोदयात्सविता याभिरेतीति । तमुपसङ्गृह्य पप्रच्छाधीहि भोः कः सविता का सावित्री ॥ ३२ ॥ कण्डिका ३२ ॥ मौद्गल्य और मैत्रेय का गायत्री मन्त्र पर वार्तालाप ॥ ( सः तत्र आजगाम यत्र इतरः बभूव ) वह वहां आया जहां दूसरा [ मैत्रेय ] था । ( तं ह पप्रच्छ सः ह न प्रतिपेदे ) उससे उसने पूंछा और वह [ मैत्रेय ] न बता सका। (तं ह उवाच ) उस [मैत्रेय] से वह बोला - ( भवान् तं मौद्गल्यं दुर्धीयानम् अवोचत् ) आपने उस मौद्गल्य को कुपढ़ बताया है, ( सः त्वा यं प्रश्नम् अप्राक्षीत् तं पुरा न व्यवोचः संवत्सरात् आर्त्तिम् आकृष्यसि इति ) उसने तुझसे जो प्रश्न पूंछा था वह तूने हमारे सामने नहीं बताया है, एक वर्ष तक तुझे पीड़ा खींचनी होगी। ( सः ह मैत्रेयः स्वान् अन्तेवासिनः यथार्थम् उवाच ) वह मैत्रेय अपने शिष्यों से ठीक ठीक बोला-( भवन्तः यथागृहं यथामनः विप्रसृज्यन्ताम् ) आप लोग अपने अपने घर को जैसा मन हो चले जावें, ( अहं वै मौद्गल्यं दुर्धीयानम् अवोचम् ) मैंने मौद्गल्य को कुपढ़ बताया है, ( सः मा यं प्रश्नम् अप्राक्षीत् तं न व्यवोचम् ) उसने मुझसे जो प्रश्न पूंछा था वह मैंने न बताया, ( तम् उपैष्यामि शान्तिं करिष्यामि इति ) मैं उसके पास जाऊँगा और उसको शान्ति [ सन्तुष्टता ] करूंगा । ( सः ह ३२--( प्रतिपेदे ) प्रतिपादितवान् । बोधितवान् ( यथागृहम् ) गृहमन- तिक्रम्य ( यथामनः ) यथेच्छम् ( विप्रसृज्यन्ताम् ) विविधं प्रकर्षेण गच्छन्ताम् ( शान्तिम् ) सन्तोषम् । प्रसन्नताम् ( समित्पाणिः ) होमार्थं हस्तयोः समिधा- युक्तः ( आग्रहम् ) आग्रह-अर्शआद्यच् । अनुग्रहवन्तम् ( कृतम् ) करोते.-- भूतकाले क्तः। कृतवन्तः (पापकेन) पापयुक्तेन । दुःखकरेण (आहुः) मनुष्याः कथ- यन्ति ( कल्याणः ) मङ्गलकरः (अत्विषम् ) नञ् + त्विष दीप्तौ--कः। त्वेषप्रतीका