गोपथ ब्राह्मण (अथर्ववेद - क्षेमकरणदास त्रिवेदी हिन्दी भाष्य)
Gopatha Brahmana with Hindi Bhashya by Pt. Kshemkarandas Trivedi
महर्षि गोपथ / पं. क्षेमकरणदास त्रिवेदी द्वारा
स्रोत: चौखम्बा संस्कृत प्रतिष्ठान · चौखम्बा संस्कृत प्रतिष्ठान · 1950 (उद्गम)
पृष्ठ 97, कुल 600 में से
संदर्भ में पढ़ेंकर्म हैं, यह भी तुझे बताता हूँ, ( सविता प्रचोदयात्, याभिः एति इति ) [ जिनको ] सविता [ सबका चलाने वाला ] आगे बढ़ाता है और जिनसे चलता है । ( तम् उपसंगृह्य पप्रच्छ ) उसके पास आदर से जाकर उस [ मैत्रेय ] ने पूछा--( भोः अधीहि कः सविता का सावित्री ) महाराज ! पढ़ाओ कौन सविता है कौन सावित्री है ॥ ३२ ॥ भावार्थः-मनुष्यों को प्रश्नोत्तर करके गायत्री आदि वेद मन्त्रों के अर्थ समझने चाहियें ॥ ३२ ॥ विशेषः-त्रिपदा सावित्री वा गायत्री मन्त्र--तत् सवितुर्वरेण्यं भर्गो देवस्य धी- महि । धियो यो नः प्रचोदयात् ॥ ऋ० ३ । ६२ । १०, यजु० ३ । ३५; २२ । ६; ३० । २; ३६ । ३; साम० उ० ६ । ३ । १० । ( तत् ) उस ( देवस्य ) प्रकाशमय ( सवितुः ) सबके चलाने हारे जगदीश्वर के ( वरेण्यम् ) अति उत्तम ( भर्गः ) ज्योति को ( धीमहि ) हम धारण करें, ( यः ) जो परमेश्वर ( नः ) हमारी ( धियः ) बुद्धियों वा कर्मों को ( प्रचोदयात् ) आगे बढ़ावे ॥ कण्डिका ३३ ॥ मन एव सविता, वाक् सावित्री, यत्र ह्येव मनस्तद् वाक्, यत्र वै वाक् तन्मनः, इत्येते द्वे योनी एकं मिथुनम्, १ अग्निरैव सविता पृथिवी सावित्री, यत्र ह्येवाग्निस्तत् पृथिवी यत्र वै पृथिवी तदग्निरित्येते द्वे योनी एकं मिथुनं, २ वायु- रेव सविताऽन्तरिक्षं सावित्री यत्र ह्येव वायुस्तदन्तरिक्षं, यत्र वा अन्तरिक्षं तद्वा- युरित्येते द्वे योनी एकं मिथुनम् ३, आदित्य एव सविता द्यौः सावित्री यत्र ह्येवादित्यस्तद्द्यौर्यत्र वै द्यौस्तदादित्य इत्येते द्वे योनी एकं मिथुनं ४, चन्द्रमा एव सविता, नक्षत्राणि सावित्री, यत्र ह्येव चन्द्रमास्तन्नक्षत्राणि यत्र वै नक्ष- त्राणि तच्चन्द्रमा, इत्येते द्वे योनी एकं मिथुनम् ५, अहुरेव सविता, रात्रिः सावित्री, यत्र ह्येवाहस्तद्रात्रैर्यत्र वै रात्रिस्तदहरित्येते द्वे योनी एकं मिथुनम् ६, उष्णमेव सविता, शीतं सावित्री यत्र ह्येवोष्णं, तच्छीतं, यत्र वै शीतं तदुष्ण- मित्येते द्वे योनी एकं मिथुनम्, अब्भ्रमेव सविता, वर्षं सावित्री, यत्र ह्येवा- ब्भ्रन्तद्वर्षं यत्र वै वर्षं तदब्भ्रमित्येते द्वे योनी एकं मिथुनं ८, विद्युदेव सविता स्तनयित्नुः सावित्री यत्र ह्येव विद्युत् तत् स्तनयित्नुः यत्र वै स्तनयित्नुस्तद्विद्युदित्येते द्वे योनी एकं मिथुनं ९, प्राण एव सविता अन्नं सावित्री, यत्र ह्येव प्राणस्तदन्नं यत्र वा अन्नं तत् प्राण इत्येते द्वे योनी एकं मिथुनं १०, वेदा एव सविता छन्दांसि सावित्री, यत्र ह्येव वेदास्तच्छन्दांसि यत्र वैच्छन्दांसि तद् वेदा इत्येते द्वे योनी एकं मिथुनं ११, यज्ञ एव सविता, दक्षिणा सावित्री, यत्र ह्येव यज्ञस्तत् दक्षिणा यत्र ३३-(योनी) वहिश्रिश्रुयुद्रु० ( उ० ४ । ५१ ) यु मिश्रणामिश्रणयोः- निः। योनिरुदकनाम--निघ० १ । १२ गृहनाम--निघ० ३ । ४ उत्पत्ति-