हम्मीर महाकाव्यम् (रणथम्भौर चौहान वीरगाथा एवं इतिहास)
Hammira Mahakavya with Hindi Commentary
नयचन्द्र सूरि / डॉ. दशरथ शर्मा द्वारा
पृष्ठ 154, कुल 185 में से
संदर्भ में पढ़ें१०६ श्रीहम्मीरमहाकाव्ये [सर्गः विद्वेषिवीरजनमानदारणो माभूत्प्रवृत्त ऋत एव मारणः । संभावयन्निति निशम्य काहलां प्रायात् परः समरजिग्वरखरः ॥ २४ ॥ गृध्रं भ्रमंतमुपरीत्यूवकपरो संवर्म्मयन्नयमिह प्रतीक्ष्यतां । मूर्ध्नीतरस्य यदि वात्मनस्तनौ श्रद्धां तनोमि फलिनीं तवाधुना ॥ २५ ॥ स्याज्जीवता युधि यशो मृतस्य तु स्फीतं च तच्च सुरवल्लभा अपि । इत्यस्य वीरनिकरस्य निर्यतो जज्ञे न दुःशकुनमध्वनि क्वचित् ॥ २६ ॥ कुंभान्निधाय शिरसि प्रपूरितान् एलालवंगरसभीतलैर्जलैः । प्रीत्यानुयातुमसुवल्लभान्निजान् सज्जीबभूव निखिलो भटीजनः ॥ २७ ॥ अल्लावदीनविभुरप्यथोद्भट—द्विट्प्रोन्मथिषुतयाऽकुलाशयः । संनह्य सैन्यमनुजादिभिर्वृतः स्थाने प्रतिश्रुतमशिश्रियन्मिथः ॥ २८ ॥ अन्योन्यवीक्षणवशोल्लसन्महा—कोपप्ररूढमहिमप्रसृवराः । वीरा रंवाः प्रतिरवैश्च—दिभि योगैर्द्विरुक्तिमिव धातवो ययुः ॥ २९ ॥ अभ्रंकषोलसितचारुचामरे कुक्षिभरिद्विरदबृंहिते दिशां । प्रस्पर्धयेव दधतुः परस्परां सैन्ये इमे श्रियमिहाधिकाधिकं ॥ ३० ॥ पुष्णंश्चरंविनमयेन संगरो—त्साहं हृदि प्रधनकारिणां नृणां । तूर्याणि पूरितहरिति निस्वनैः सैन्यद्वयेपि नितरामराणिषुः ॥ ३१ ॥ भंक्तुं विपक्षकरिकुंभघर्षणैः कंडूलतां स्वभुजदंडयोरथ । चेलुर्भटा अपि बलद्वयाद्रणो—त्साहत्रुटंचुटदशेषकंकटाः ॥ ३२ ॥ पत्तिः पदातिकमियाय सादिनं सादी रथस्थितमहो महारथी । मातंगयानगमनो निषादिनं द्वंद्वहवोऽजनि तदेतिदोषमतां ॥ ३३ ॥ ऊर्ध्वाभवंत उरुविक्रमैः शिर—स्त्राणानि वीरनिकरस्य मूर्धजाः । स्मोत्स्वासयंति घनकालसंभवा भूस्फोटका इव महीप्रदेशकान् ॥ ३४ ॥ अन्योन्यजातहठतो गतांतरं मुक्तैः पृषत्कनिवहै रणांगणे । पाणिग्रहाय विजयश्रियो भटा यत्नेन मंडपमिव व्यरीरचन् ॥ ३५ ॥ कोदंडचंडरुचिमंडलादतो दीप्राः क्षुरप्रकिरणाः प्रपातिनः । प्रत्यार्थिवीरतिमिराणि वेगतो—प्यानिन्यिरे युधि कथावशेषतां ॥ ३६ ॥