जातक पारिजात (वैद्यनाथ दीक्षित - शास्त्रीय होरा फलित, राजयोग एवं आयुर्दाय सटीक)
Jataka Parijata of Vaidyanatha Dikshita with Commentary
वैद्यनाथ दीक्षित (टीकाकार: पं. कपिलेश्वर शास्त्री एवं पं. मातृप्रसाद शास्त्री) द्वारा
पृष्ठ 11, कुल 588 में से
संदर्भ में पढ़ेंभूमिका ३ ज्योतिषकल्पद्रुमः— (वृक्षपत्राणि शाखाश्च— संहिताशाखा—अङ्गुष्ठशकुनादिग्रन्थराशयः, स्वरग्रन्थराशयः, स्वप्नाध्यायग्रन्थराशयः, शान्तिग्रन्थराशयः, शकुनग्रन्थराशयः, उत्पातग्रन्थराशयः, प्रकृतिलक्षणग्रन्थराशयः, वास्तुग्रन्थोऽर्घविचारः, सामुद्रिकग्रन्थराशयः, संहिता । होराशाखा—जातकग्रन्थराशयः, प्रश्नग्रन्थसमूहाः, वर्षफलग्रन्थराशयः, ताजिकग्रन्थराशयः, नष्टजातकविषयाः, होरा । सिद्धान्तशाखा—पाटीगणितविषयाः, बीजगणितविषयाः, रेखागणितविषयाः, यन्त्रनिर्माणविषयाः, त्रिकोणमिति विषयाः, गोलीयत्रिकोणमिति विषयाः, प्रतिज्ञाज्ञानोपपत्तिग्रन्थविषयाः, भास्करीयगणितविषयाः, नौताध्यायः, चलनकलनविषयाः, ज्यामिति विषयाः, करणग्रन्थराशयः, सिद्धान्त । प्रकाण्डम्—ज्योतिषम् । मूलानि—ऋग्वेदः, अथर्ववेदः, सामवेदः, यजुर्वेदः, उपनिषदः, शिक्षा, कल्पः, व्याकरणम्, निरुक्तम्, छन्दः ।) तेषु संहिताग्रन्थेषु केवलं तावदेकस्यैव वराहमिहिरकृतस्य बृहत्संहिताभिधस्येदानीन्तने लोके उपलब्धिः प्रचारश्च । अन्याः संहिता लुप्तप्रायाः प्रायोऽस्मदपराधेन नियन्त्रिताः शेरते । तन्त्रस्कन्धे—सूर्यसिद्धान्त-सिद्धान्तशिरोमणि-सिद्धान्ततत्त्वविवेकेतिसिद्धान्तग्रन्थत्रयस्य, ग्रहलाघवाभिधैकस्य करणग्रन्थस्य, लीलावती-बीजगणितेतिगणितग्रन्थद्वयस्य, सर- लचापीयत्रिकोणगणितस्य चाद्यत्वे प्रचारो वर्त्तते । होरास्कन्धेऽपि—द्वित्रा एव मूलग्रन्थाः प्रचलितास्तदितरास्त्विदानीन्तनाः सङ्कलिताः समविषयका एव भिन्नभिन्ननाम्ना नष्टा भ्रष्टा- श्चानेके दृश्यन्ते । स्कन्धत्रयेऽपि प्राचीनार्षग्रन्था हतभाग्येऽस्मिन् भारते समागते मुग- लसाम्राज्ये (तेषां वैधर्म्यैश्वर्य्येन) नियन्त्रिता बहुशः लुप्ता बभूवुः । दैवात् तदानीं तेषां कुटिलकटाक्षैर्बञ्चिता ये केचन ग्रन्था हतभाग्यानामस्माकं नयनपथमुपयान्ति । ते च यवना अस्माकमार्षग्रन्थानां यथावसरं सारं सङ्कलय्य स्वभाषावद्धान् कांश्चन ग्रन्थांश्चक्रुः । तदानीं तच्छुश्रूषया वराहमिहिरोऽपि स्वजातके राशीनां संज्ञा यवनभाषयैव कृतवान्, हन्त ! ताश्च संज्ञा यथा— क्रिय-तावुरि-जितुम-कुलीर-लेय-पाथोन-जूक-कौर्प्याख्याः । तौक्षिक-आकोकेरो-हृद्रोगश्चान्त्यभं चेत्थम् ॥ इति । एवं नीलकण्ठाचार्य्यश्च स्व-ताजिकनीलकण्ठीनामके ग्रन्थे सर्वाः संज्ञा यवनभाषयैवा- युङ्क्त । अपरेऽपि केचन ग्रन्था ईदृशा वर्त्तन्ते । ततः परं (मुगलसाम्राज्यानन्तरम्) यूरप- देशीयगुरुण्डानां प्रचलितेऽस्मिन् साम्राज्ये ये केचिदुर्वरिता अस्माकमार्षग्रन्था भारतीयानां