BharatKosha
कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५)

कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५)

by महाकवि सोमदेव भट्ट

Source: कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५) · बिहार राष्ट्रभाषा परिषद्, पटना · 1960 (origin)

DevanagariHindipublished876 pages

Page 107 of 876

Read in context
Page 107

७२ कथासरित्सागर सोऽपि इहमिव क्रोधादृष्या शप्तो गणोत्तम । माल्यवान्नाम मत्पक्षपाती मर्त्यत्वमागतः ॥१३०॥ तस्मै महेश्वरोक्तैषा कथनीया महाकथा । यतस्त्वं शापनिर्मुक्तिस्तस्य चापि भविष्यति ॥१३१॥ एव वररुचिस्तेन काणभूतिर्निवर्च स । प्रतस्थे देहमोक्षाय पुण्यं बदरिकाश्रमम् ॥१३२॥ गच्छन्वन्द्य गङ्गायां सोऽथ शाकाशिनं मुनिम् । तत्समक्षं च तस्यो कुशनाभूरकरक्षतिः ॥१३३॥ ततोऽस्य रुधिरं निघ्नंस्तन शाकरसीकृतम् । अहङ्कारपरीक्षार्थं कौतुकात्स्वप्रभावतः ॥१३४॥ तद्दृष्ट्वा हन्त सिद्धोऽस्मीत्यगाद्दर्पमसौ मुनिः । ततो वररुचिः किञ्चिद् विहस्यैव जगाद तम् ॥१३५॥ जिज्ञासनाय रक्तं ते मया शाकरसीकृतम् । यावन्नाद्याप्यहङ्कारः परित्यक्तस्त्वया मुने ॥१३६॥ ज्ञानमार्गे अहङ्कारः परिपन्थी दुरतिक्रमः । ज्ञानं विना च नास्त्येव मोक्षो व्रतशतैरपि ॥१३७॥ स्वगस्तु न मुमुक्षूणां क्षयी चित्तं विलोभयेत् । तस्मादहङ्कृतित्यागाज्ज्ञाने यत्नं मुने ! कुरु ॥१३८॥ विनीयैवं मुनिं तं प्रयतं कृतस्तुतिः । तं बदर्याशमोद्देशं शान्तं वररुचिर्ययौ ॥१३९॥ अथ स निबिडभक्त्या तत्र देवीं शर्वाणीं शरणमुपगतोऽसौ मय्यभावं मुमुक्षुः । प्रकटितनिजमूर्तिः सापि तस्मै शशंस स्वयममरससृष्ट्यां धारणां देहमुक्त्यै ॥१४०॥ दग्ध्वा शरीरमथ धारण्या तया तद्- दिव्यां गतिं वररुचिः स निजां प्रपेदे । विन्ध्याटवीभुवि ततः स च काणभूति- रासीदभीप्सितगुणाढ्यसमागमोत्कः ॥१४१॥ इति महाकविश्रीमत्सोमदेवभट्टविरचिते कथासरित्सागरे कथापीठलम्बके पञ्चमस्तरङ्गः ।