BharatKosha
कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५)

कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५)

by महाकवि सोमदेव भट्ट

Source: कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५) · बिहार राष्ट्रभाषा परिषद्, पटना · 1960 (origin)

DevanagariHindipublished876 pages

Page 109 of 876

Read in context
Page 109

७४ कथासरित्सागर षष्ठस्तरङ्गः ततः स मर्त्यवपुषा माल्यवान् विचरन् वनं। नाम्ना गुणाढ्यः संवित्वा सातवाहनभूपतिम् ॥१॥ संस्कृताद्यास्त्वग्रे च भाषास्तिस्रः प्रतिज्ञया। त्यक्त्वा खिन्नमना द्रष्टुमाययौ विन्ध्यवासिनीम् ॥२॥ तदावसनं गत्वा च काणभूतिं ददर्श सः। ततो जातिं निजां स्मृत्वा प्रबुद्धः सहसाऽभवत् ॥३॥ आदित्य भाषां पैशाचीं भाषात्रयविलक्षणाम् श्रावयित्वा निजं नाम काणभूतिं च सोऽब्रवीत् ॥४॥ पुष्पदन्ताच्छ्रुतां दिव्यां शीघ्रं कथय मे कथाम्। येन शापं तरिष्यावस्त्वं चाहं च समं सखे ॥५॥ गुणाढ्यकथा तच्छ्रुत्वा प्रणतो हृष्टः काणभूतिरुवाच तम्। कथयामि कथां किं तु कौतुकं मे महत्प्रभो ! ॥६॥ आत्मचरितं तावच्छंस मे कुर्व्वन्नुग्रहम्। इति तेनार्थितो वक्तुं गुणाढ्योऽथ प्रचक्रमे ॥७॥ प्रतिष्ठानेऽस्ति नगरं सुप्रतिष्ठितसञ्ज्ञकम् । तत्राभूत्सोमशर्माख्यः कोऽपि ब्राह्मणसत्तमः ॥८॥ वत्सश्च गुल्मकश्चैव तस्य द्वौ तनयौ सता। जायते स्म तृतीया च श्रुतार्था नाम कन्यका ॥९॥ कालेन ब्राह्मणः सोऽथ सभार्यः पञ्चतां गतः। तत्पुत्रौ तौ स्वसारं तां पालयन्तावतिष्ठताम् ॥१०॥ सा चाकस्मात्सगर्भामूत्तद्दृष्ट्वा वत्सगुल्मयोः । तत्रान्यपुंष्यामापाच्छङ्कान्योग्यमजायत ॥११॥ ततः श्रुतार्था चित्तज्ञा भ्रातरौ तावभाषत। पापशङ्का न कर्त्तव्या शृणुतं कथयामि वाम् ॥१२॥ कुमारः कीर्त्तिसेनाख्यो नागराजस्य वासुकेः । भ्रातुः पुत्रोऽस्ति तेनाहं दृष्टा स्नातुं गता सती ॥१३॥ ततः स मदनाक्रान्तो निजधान्वयनामनी। गान्धर्वेण विवाहेन मां भार्यामकरोत्तदा ॥१४॥