कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५)
महाकवि सोमदेव भट्ट द्वारा
स्रोत: कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५) · बिहार राष्ट्रभाषा परिषद्, पटना · 1960 (उद्गम)
पृष्ठ 121, कुल 876 में से
संदर्भ में पढ़ें८६ कथासरित्सागर सातवाहनकथा ततोऽब्रवीद्गुणाढ्योऽपि शृण्वत्कथयामि ते। दीपकणिरिति ख्यातो राजाभूत्प्राग्यविक्रमः॥८८॥ तस्य शक्तिमती नाम भार्या प्राणाधिकाऽभवत्। रतान्तसुप्तामुद्याने सर्पस्तां जातु दष्टवान्॥८९॥ गतायामथ पञ्चत्वं तस्यां तद्गतमानसः। अपुत्रोऽपि स जग्राह ब्रह्मचर्यव्रतं नृपः॥९०॥ ततं कदाचिद्रात्र्याहपुत्राऽसद्भावदुःखितम्। इत्यादिदेश तं स्वप्ने भगवानिन्दुशेखरः॥९१॥ अटव्यां द्रक्ष्यसि भ्राम्यन्सिंहरूढं कुमारकम्। तं गृहीत्वा गृहं गच्छेः स ते पुत्रो भविष्यति॥९२॥ अथ प्रबुद्धस्तं स्वप्नं स्मरन्गत्वा जहर्ष सः। कदाचिच्च ययौ दूरमटवीं मृगयारसात् ॥९३॥ ददर्श तत्र मध्याह्ने सिंहरूढं स भूपतिः। बालकं पद्मसरसस्तीरे तपनतेजसम् ॥९४॥ अथ राजा स्मरन् स्वप्नमवतारितबालकम्। जलाभिलाषिणं सिंहं जघानेकं शरेण तम्॥९५॥ स सिंहस्तद्वपुस्त्यक्त्वा सद्योऽभूत्पुरुषाकृतिः। कष्टं किमेतद् ब्रूहीति राज्ञा पृष्टो जगाद च॥९६॥ धनदस्य सखा यक्षः सातो नामास्मि भूपते! सोऽहं स्नान्तीमपश्यं प्राग्गङ्गायामुनिकन्यकाम् ॥९७॥ सापि मां वीक्ष्य सञ्जातमन्मथामूद्वह वशा। गान्धर्वेण विवाहेन ततो भार्या कृता मया॥९८॥ तच्च तद्बान्धवा बुद्ध्वा तां च मां चाक्षपन् क्रुधा। सिंहौ भविष्यतः पापौ स्वच्छन्दाचारौ युवामिति॥९९॥ पुत्रजन्मावधिं तस्याः शापान्तं मुनयो व्यधुः। मम तु स्वच्छरापातपर्यन्तं भवदन्तरम्॥१००॥ अथवा सिंहमिथुनं सञ्जातौ सापि कालतः। गर्भिण्यभवतो जाते द्यानेऽस्मिन्व्यपद्यत॥१०१॥