भारतकोश
कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५)

कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५)

महाकवि सोमदेव भट्ट द्वारा

स्रोत: कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५) · बिहार राष्ट्रभाषा परिषद्, पटना · 1960 (उद्गम)

DevanagariHindipublished876 पृष्ठ

पृष्ठ 143, कुल 876 में से

संदर्भ में पढ़ें
पृष्ठ 143

१०६ कथासरित्सागर सञ्ज्ञामेतामजानानो गूढां राजसुताकृताम् । स कर्तव्यविमूढः सन्नुपाध्यायगृहं ययौ ॥६५॥ रुलोठ तत्र धरणीं न किञ्चिद्वक्तुमीश्वरः । यापन् दह्यमानोऽन्तमूकः प्रमुषितो यथा ॥६६॥ वितर्क्य कामनैश्चित्यमुपाध्यायेन धीमता । युक्त्या पृष्टः कथञ्चिन्नु यथावृत्तं शशंस सः ॥६७॥ तद्बुद्ध्वा तमुपाध्यायो विदग्धो वाक्यमब्रवीत् । दन्तेन पुष्पं मुञ्चन्त्या तया सञ्ज्ञा कृता तव ॥६८॥ यद्दन्तपुष्पवन्ताख्यं पुष्पादयं सुरमन्दिरम् । तत्रागत्य प्रतीक्षस्वा साम्प्रतं गम्यतामिति ॥६९॥ श्रुत्वेति ज्ञातसञ्ज्ञार्थः स तत्याज शुचं युवा । ततो देवगृहस्यान्तस्तस्य गत्वा स्थितोऽभवत् ॥७०॥ साप्यष्टमीं समुद्दिश्य तत्र राजसुता ययौ । एकैव देवं द्रष्टुं च गर्भागारमथाविशत् ॥७१॥ दृष्टोऽत्र द्वारपट्टस्य पश्चात्सोऽथ प्रियस्तया । गृहीतानन चोत्थाय सा कण्ठे सहसा ततः ॥७२॥ चित्रं त्वया कथं ज्ञाता सा सञ्ज्ञेत्युदितं तया । उपाध्यायेन सा ज्ञाता न मयेति जगाद सः ॥७३॥ मुञ्च मामविदग्धस्त्वमित्युक्त्वा सत्वरात्क्रुधा । म त्रमदभयात्साथ राजकन्या ततो ययौ ॥७४॥ सोऽपि गत्वा विविक्ते तां दृष्टनष्टां स्मरन्प्रियाम् । दद्यदत्तो वियोगाग्निबिगरुद्धजीवितोऽभवत् ॥७५॥ दृष्ट्वा स तादृशं दाग्भुं प्राणप्रसन्नं किलादिदात् । गणः पञ्चशिखो नाम तस्याभीप्सितसिद्धये ॥७६॥ स चागत्य समाश्वास्य स्त्रीवेषं तं गणोत्तमः । अकारयत्स्वयं चाभूद् वृद्धब्राह्मणरूपभृत् ॥७७॥ ततस्तेन समं गत्वा तं मृगममहीपतिम् । जनकं मुत्तमञ्जय्याः स जगाद गणाग्रणीः ॥७८॥ पुत्रो मे प्रोषितः क्वापि तमन्वष्टुं व्रजाम्यहम् । तमं स्नुषां निक्षेपो राजन्सम्प्रति रक्ष्यतम् ॥७९॥

कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५) · पृष्ठ 143, कुल 876 में से · BharatKosha