BharatKosha
कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५)

कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५)

by महाकवि सोमदेव भट्ट

Source: कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५) · बिहार राष्ट्रभाषा परिषद्, पटना · 1960 (origin)

DevanagariHindipublished876 pages

Page 161 of 876

Read in context
Page 161

१२२ कथासरित्सागर

स्थितेष्वस्मासु तत्रैव विरिञ्चि द्रष्टुमप्सराः। आगादलम्बुषा नाम वातविस्रंसितांशुका ॥२४॥ तां दृष्ट्वैव स कामस्य वशं वसुरपागमत्। साप्यप्सरा भगिर्यासीत्तद्रूपाकृष्टलोचना ॥२५॥ तदालोक्य ममापद्यन्मुखं कमलसम्भवः। अभिप्रायं विदित्वास्थ तावहं शप्तवान् क्रुधा ॥२६॥ मर्त्यलोकेऽवतारेऽस्तु युवयोरविनीतयोः। भविष्यथश्च तत्रैव युवां भार्यापती इति ॥२७॥ स वसुस्त्वं समुत्पन्नः सहस्रानीकभूपते ! शतानीकस्य तनयो भूषणं शशिनः कुले ॥२८॥ साप्यप्सरा ह्ययोध्यायां कृतवर्मनृपात्मजा। जाता मृगावती नाम सा ते भार्या भविष्यति ॥२९॥ इतीन्द्रवाक्यपवनेनेद्धभूतो हृदि भूपतेः। हृत्स्नेहे तस्य भृगिति प्राज्वलन्मदनानतः ॥३०॥ सतं सम्मान्य शक्रेण प्रेषितस्तद्रथेन सः। सह मातलिना राजा प्रतस्थे स्वां पुरीं प्रति ॥३१॥ गच्छन्तं चाप्सरा प्रीत्या समुवाच तिलोत्तमा। राजन्वक्ष्यामि तं किञ्चित्प्रतीक्षस्व मनागिति ॥३२॥ तदश्रुत्वैव हि ययौ स तां ध्यायन्मृगावतीम्। ततः सा लज्जिता कोपात्तं शशाप तिलोत्तमा ॥३३॥ यया हृतमना राजन्न शृणोषि वचो मम। तस्याश्चतुर्वत्सरसमा वियोगस्ते भविष्यति ॥३४॥ मातलिस्तच्च शुश्राव न च राजा प्रियोत्सुकः। ययौ रथेन कौशाम्बीमयोध्यां मनसा पुनः ॥३५॥ ततो युगन्धरादिभ्यो मन्त्रिभ्यो वासवाच्छ्रुतम्। मृगावतीगतं सर्वं शशंसोत्सुकया धिया ॥३६॥ याचितुं तां स कन्यां च ह्यतिष्ठतु कृतवर्मणः। मयोध्यां प्राहिणोद्दूतं बास्नेपासहो नृपः ॥३७॥ कृतवर्मा च तद्भूताच्छ्रुत्वा सम्पदामभ्यधात्। हृपदेिव्य शतावत्यै ततः साप्यममब्रवीत् ॥३८॥