BharatKosha
कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५)

कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५)

by महाकवि सोमदेव भट्ट

Source: कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५) · बिहार राष्ट्रभाषा परिषद्, पटना · 1960 (origin)

DevanagariHindipublished876 pages

Page 163 of 876

Read in context
Page 163

१२४ कथासरित्सागर राजन्महस्रानीकाय देयावश्यं मृगावती। इममर्थं च मे स्वप्ने जाने कोऽप्यवदद्द्विजः ॥३९॥ अथ दृष्टो मृगावट्या नृत्तगीतादिकौशलम्। रूपं चाप्रतिमं तस्मै दूतायादर्शयन्नृपः ॥४०॥ ददौ तां च स कान्तानां वल्लभा मेकमास्पदम्। कृतवर्मा सुतां तस्मै राज्ञे मूर्तिमिवेद्वीम् ॥४१॥ परस्परगुणावाप्त्यै स श्रुतप्रज्ञयोरिव। अभूत्सहस्रानीकस्य मृगावट्याश्च सङ्गमः ॥४२॥ अथ तस्याचिराद्राज्ञो मन्त्रिणां जज्ञिरे सुताः। जज्ञे युगन्धरस्यापि पुत्रो यौगन्धरायणः ॥४३॥ सुप्रतीकस्य पुत्रश्च रुमण्वानित्यजायत। योऽन्य नर्मसुहृत्तस्य पुत्रोऽजनि वसन्तकः ॥४४॥ ततस्तस्यापि विवसे सहस्रानीकभूपतेः। बभार गर्भमापाण्डुमुखी राज्ञी मृगावती ॥४५॥ ययाचे साच भर्तारं दर्शनावृतलोचनम्। दोहदं रुधिरापूर्णशीलावापीनिमज्जनम् ॥४६॥ स चेच्छां पूरयन् राज्ञ्या लाक्षाविरसनिर्भरम्। चकार धार्मिको राजा बापीं रक्तामृतामिव ॥४७॥ तस्यां स्नान्तीमकस्माच्च लाक्षालिप्तां निषत्य ताम्। गरुडान्त्रयः पक्षी जहाराभिपदङ्कया ॥४८॥ पक्षिणा क्वापि नीतां तामन्वेष्टुमिव तत्क्षणम्। ययौ सहस्रानीकस्य धैयं विह्वलचेतसः ॥४९॥ प्रयानुरक्तं चेतोऽपि नूनं तस्य पतत्रिणा। जह्रे यन्न स निस्सञ्ज्ञः पपात भुवि भूपतिः ॥५०॥ क्षणाच्च व्यध्वसन्नेऽस्मिन् राज्ञि बुद्ध्या प्रमावतः। अवतीर्य द्युमार्गेण तं मातलिराययौ ॥५१॥ स राजानं समाश्वास्य सर्वार्थं प्राग्यथा धृतम्। तस्मै तिलोत्तमाशापं कथयित्वा ततोजगम् ॥५२॥ हा प्रिये पूर्णकामा सा जाता पापा तिलोत्तमा। इत्यादि च स शोकार्तो विप्रलाप महीपतिः ॥५३॥