कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५)
by महाकवि सोमदेव भट्ट
Source: कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५) · बिहार राष्ट्रभाषा परिषद्, पटना · 1960 (origin)
Page 187 of 876
Read in context१४६ कथासरित्सागर सम्मन्दिरं च दग्धा सा धीवा स्त्री सुतया सह ॥११२॥ लोकस्तु तां सखीयुक्तां मेन दग्धां नृपात्मजाम्। प्रातश्च पूर्ववत्तत्र श्रीदत्तो ददृशे जनैः ॥११३॥ ततो रात्रौ द्वितीयायां स गृहीतमृगाङ्ककः। श्रीदत्तः प्रययौ पूर्वं प्रस्थितां तां प्रियां प्रति ॥११४॥ तया च रात्र्यातिक्रम्य दूरमध्वानमुत्सुकः। विन्ध्याटवीमथ प्राप स प्रातः प्रहरे गते ॥११५॥ तत्राधावनिमिषाक्षि पश्चादपि ददर्श तान्। सर्वान्निहाराभिहतान्सपद्मवनिकान् सखीन् ॥११६॥ ते च दृष्ट्वा निजगुस्तं सम्भ्रान्तमुपागतम्। मुषिताः स्मो निपत्याथ बह्वश्वारोहसेनया ॥११७॥ एकेन चाश्वारोहेण राजपुत्री भयाकुला। अस्मास्वतदवस्थेषु नीताश्वमभिरोप्य सा ॥११८॥ दूरं न यावन्नीता च तावद् गच्छानया दिशा। अस्माकमन्तिकं मा स्थाः सर्वषामभ्यधिका च सा ॥११९॥ इति तैः प्रेषितो मित्रैर्मुहुः पश्यन्निवृत्त सः। जवेन राजतनयां श्रीदत्तोऽनुससार ताम् ॥१२०॥ गत्वा सुदूरं लेभे च तामश्वारोहवाहिनीम्। युवानमेकं तन्मध्ये क्षत्रियं स ददर्श च ॥१२१॥ तेनोपरि तुरङ्गस्य गृहीतां तां नृपात्मजाम्। अपश्यच्च ययौ चास्य क्षत्रसूनोऽन्तिकं क्रमात् ॥१२२॥ सास्त्रेण राजपुत्रीं ताममुञ्चन्तं च पावतः। अश्वादाक्षिप्य दृषदि श्रीदत्तस्तमचूर्णयत् ॥१२३॥ तं हत्वा च तमेवाश्वमारुह्य निजघान तान्। अन्यान्यपि बहून्क्रुद्धानश्वारोहान् प्रभाववान् ॥१२४॥ हतशेषास्ततस्ते च तद्दृष्ट्वा तस्य तादृशम्। वीरस्यामानुषं वीर्यं पलाय्य त्रस्य युः ॥१२५॥ स चापि तुरगारूढो राजपुत्र्या तया सह। मृगाङ्कवत्या श्रीदत्तः प्रययौ तान् सखीन् प्रति ॥१२६॥ स्तोकं गत्वा च तस्याश्वः सङ्ग्रामे व्रणितो भृशम्। समाग्रस्यावतीर्णस्य पपात प्राप पञ्चताम् ॥१२७॥