कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५)
by महाकवि सोमदेव भट्ट
Source: कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५) · बिहार राष्ट्रभाषा परिषद्, पटना · 1960 (origin)
Page 201 of 876
Read in context१६० कथासरित्सागर ततस्तं बह्याश्च तनयमनुरक्तप्रकृतिष्विव निवेश्य स्वे राज्ये जगदुदयहेतोरुदयनम् । सहस्रानीकोऽसौ सचिवसहितः सप्रियतमो महाप्रस्थानाय क्षितिपतिरगच्छद्धिमगिरिम् ॥२१७॥ इति महाकविश्रीसोमदेवभट्टविरचिते कथासरित्सागरे कथामुखलम्बके द्वितीयस्तरङ्गः तृतीयस्तरङ्गः ततः स वत्सराज्यं च प्राप्य पित्रा समर्पितम् । कौशाम्ब्यवस्थितः सम्यक्छशासोदयनः प्रजाः ॥१॥ यौगन्धरायणाद्येषु भरं विन्यस्य मन्त्रिषु । बभूव स शनै राजा सुखैकान्ततत्परः ॥२॥ सदा सिषेवे मृगयां वीणां घोषवतीं च ताम् । दत्तां वासुकिना पूर्वं भक्तस्दिनमवादयत् ॥३॥ तत्तन्त्रीक्वणनिर्ह्लादमोहमन्यवशीकृतान् । आनिनाय च संयम्य सदा मत्तान् वनद्विपान् ॥४॥ स वारनारीवक्त्रेन्दुप्रतिमालङ्कृतां सुराम् । मन्त्रिणां च मुखच्छायां वत्सराजः समं पपौ ॥५॥ कुरूपस्यानुरूपा मे भार्या क्वापि न विद्यते । एका वासवदत्ताख्या कन्यका श्रूयते परम् ॥६॥ कथं प्राप्येत सा चेति चिन्तामेकामुवाह सः । सोऽपि चण्डमहासेन उज्जयिन्यामचिन्तयत् ॥७॥ तुल्यो मदुहितुर्भर्त्ता जगत्यस्मिन्न विद्यते । अस्ति चोदयनो नाम विपक्षः स च मे सदा ॥८॥ तत्कथं माम जामाता वश्यश्च स भवेन्मम । उपायस्त्वक एवास्ति यदटव्यां भ्रमत्यसौ ॥९॥ एकाकी द्विरदान्वेषी मृगयाव्यसनी नृपः । तेन च्छिद्रेण तं युक्त्यावष्टभ्यानाययाम्यहम् ॥१०॥ गान्धर्वशास्त्रं तस्यैतां सुतां शिक्षीकरोमि च । ततश्चास्यां स्वयं तस्य चक्षुः स्निह्यत्यसंशयम् ॥११॥ एवं स मम जामाता वश्यश्च नियतं भवेत् । मान्योऽस्त्युपायः कोऽप्यत्र येन वश्यो भवेन्न सः ॥१२॥