कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५)
by महाकवि सोमदेव भट्ट
Source: कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५) · बिहार राष्ट्रभाषा परिषद्, पटना · 1960 (origin)
Page 215 of 876
Read in context१७४ कथासरित्सागर
एकाकी वादयन्वीणां चिन्तयन् बन्धनानि सः। मधुरध्वनि गायंश्च शनैरुपजगाम तम् ॥१७॥ गान्धर्वदत्तचित्तत्वात्सन्ध्याध्वान्तवशाच्च सः। न तं वनगजं राजा मायागजमलक्षयत् ॥१८॥ सोऽपि हस्ती समुत्संतो गीतरसादिव। उपेत्योपेत्य विचलन् दूरमाकृष्टवान्नृपम् ॥१९॥ ततोऽकस्माच्च निर्गत्य तस्माच्चर्ममयाद् गजात्। वत्सेश्वरं सं सन्नद्धा पुरुषाः पर्यवारयन् ॥२०॥ तान्दृष्ट्वा नृपतिः कोपादाकृष्टच्छुरिकोऽथ सः। अप्रस्थान् योधयन्नन्यैरेत्य पश्चाद्वगृह्यत ॥२१॥ सङ्केतमिलितैश्चान्यैर्योधास्तैः सैनिकैः सह। निन्युर्वत्सेश्वरं चण्डमहासेनान्तिकं च तम् ॥२२॥ सोऽपि चण्डमहासेनो निर्गत्याग्रे कृतादरः। वत्सेशेन समं तेन विवेशोज्जयिनीं पुरीम् ॥२३॥ स तत्र ददृशे पौरैरवमानकलङ्कितः । छतीव लोचनानन्दो वत्सराजो नवागतः ॥२४॥ ततोऽस्य गुणरागेण वधमाशङ्क्य तत्र ते। पौराः सम्भूय सन्नादचक्रुर्मरणनिश्चयम् ॥२५॥ न मे वत्सेश्वरो वध्यो मयेष इति तान् ब्रुवन्। सांत्व्य चण्डमहासेनः पौरान् क्षोभादवारयत् ॥२६॥ ततो वासवदत्तां तां सुतां तत्रैव भूपतिः। वत्सराजाय गान्धर्वविद्याहेतोः समर्पयत् ॥२७॥ उवाच चैनं गान्धर्वं स्वसुतां शिक्षय प्रभो। ततः प्राप्स्यसि कल्याणं मा विषादं वृथा कृथा इति ॥२८॥ तस्य दृष्ट्वा तु तां कन्यां यन्मगजस्य भाननम्। मया स्नेहात्तमभवन्न यथा मन्युमेशतः ॥२९॥ तस्यानु चागुनमनी सह तं प्रतिजग्मतुः। हिया सद्युनिवृत्ते मनस्तु न व्यरुध्यत ॥३०॥ अथ वासवदत्तां तां गापयन्गद्गतेक्षणः। तथ गान्धर्वतायापी वत्सगज उवाच सः ॥३१॥