कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५)
by महाकवि सोमदेव भट्ट
Source: कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५) · बिहार राष्ट्रभाषा परिषद्, पटना · 1960 (origin)
Page 223 of 876
Read in context१८२ कथासरित्सागर कथां कथयितुं देवि जानामीति स चावदत्। कथां कथय तर्ह्येकामिति सापि ततोऽब्रवीत् ॥७६॥ ततस्तां राजतनयां रञ्जयन् स वसन्तकः। हास्यवचित्रसरसामिमामकथयत्कथाम् ॥७७॥ लोहजङ्घकथा अस्तीह मथुरा नाम पुरी कंसारिजन्मभूः। तस्यां रूपनिकेतासीत् ख्याता वारविलासिनी ॥७८॥ तस्या मकरदंष्ट्राख्या माताभूद् वृद्धकुट्टनी। तद्गुणावृष्यमाणानां यूनां दृष्टि विपच्छटा ॥७९॥ पूजाकाले सुरकुलं स्वनियोगाय जातु सा। गता रूपणिका दूरादेकं पुंष्यमक्षत ॥८०॥ स दृष्टः सुभगस्तस्या विवेश हृदयं तथा। यथा मात्रा कृतास्तेऽस्मादुपदेशा विनिर्ययुः ॥८१॥ चेटिकामथ सावादीद् गच्छ मद्वचनादमुम्। पुंष्यं ब्रूहि मद्गेहं त्वयाद्यागम्यतामिति ॥८२॥ तथेति चेटिका सा च गत्वा तस्मै तदब्रवीत्। ततः स किञ्चिद् विमृशन् पुंष्यस्तामभाषत ॥८३॥ लोहजङ्घाभिधानोऽस्मि ब्राह्मणो नास्ति मे धनम्। तवाढ्यजनगम्यं हि कोऽहं रूपणिकागृहे ॥८४॥ न धनं वाञ्छ्यते त्वत्त स्वामिन्येत्युदिते तया। स लोहजङ्घस्तद्वाक्यं तथेति प्रत्यपद्यत ॥८५॥ ततश्चेटीमुगाद् मुक्त्वा तच्च सा गृहमूत्सुका। गत्वा रूपणिका हस्थौ तन्मार्ग न्यस्तलोचना ॥८६॥ क्षणाच्च लोहजङ्घोऽथ तस्या मन्दिरमाययौ। कुतोऽप्यमिति कुट्टन्या दृष्टो मकरदंष्ट्रया ॥८७॥ प्रापि रूपणिका दृष्ट्वा स्वयमुत्थाय सादरम्। कामवन्मन्तरं हृष्टा कण्ठे लग्ना निनाय तम् ॥८८॥ तत्र सा लोहजङ्घस्य नव्यं सौभाग्यसम्पदा। वणीरता गतौ भाग्यम्यक्त जगद्मयमयत् ॥८९॥