कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५)
by महाकवि सोमदेव भट्ट
Source: कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५) · बिहार राष्ट्रभाषा परिषद्, पटना · 1960 (origin)
Page 265 of 876
Read in context२२४ कथासरित्सागर आदाय तद्धनमवाप्य पतिं च तं स्वं देवस्मिता सकरुसज्जनपूजिता सा। प्रत्याययौ निजपुरीमथ ताम्रलिप्तीं नास्या बभूव च पुनः प्रियविप्रयोगः ॥१९४॥ इति स्त्रियो देवि ! महाकुलोद्गता विशुद्धधीरश्चरितैरुपासत। सर्व्वं भर्त्तारमनन्यमानसाः पतिः सतीनां परमं हि दैवतम् ॥१९५॥ इत्याकर्ण्य वसन्तकस्य वदनादेतामुदारां कथां मार्गे वासवदत्तया नवपरित्यक्ते पितुर्वेश्मनि। तल्लज्जासदनं विधाय विवृधे वत्सेश्वरे भर्त्तरि प्राक्प्रौढप्रणयाबबद्धमपि सद्भक्त्येकतानं मनः ॥१९६॥ इति महाकविश्रीसोमदेवभट्टविरचिते कथासरित्सागरे कथा मुख लम्बके पञ्चमस्तरङ्गः षष्ठस्तरङ्गः अथ विन्ध्यान्तरे तत्र वत्सराजस्य तिष्ठतः। पार्श्वं चण्डमहासेनप्रतीहारः समाययौ ॥१॥ स चागत्य प्रणम्यैनं राजानमिदमब्रवीत्। राजा चण्डमहासेनस्तव सन्दिष्टवानिदम् ॥२॥ युक्तं वासवदत्ता यत्स्वयमेव त्वया हृता। त्वदर्थमेव हि मया त्वमानीत इहाभवः ॥३॥ सप्रतस्य च नैवाहं दत्तेया से मया स्वयम्। मैवमस्मासु ते प्रीतिर्मेनेति विशङ्किना ॥४॥ तदिदानीमविधिना गतास्या दुहितुर्यथा। न विवाहो भवेद्राजन् प्रतीषेधास्तथा मनाक् ॥५॥ गोपालको हि न चिरादत्रैवेष्यति मत्सुतः। स चास्याः स्वसुरुद्वाहं यथाविधि विधास्यति ॥६॥ इतीमं वत्सराजाय सुन्देशमवधार्य सः। तत्तद्वासवदत्तायै प्रतीहारो न्यवेदयत् ॥७॥