कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५)
by महाकवि सोमदेव भट्ट
Source: कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५) · बिहार राष्ट्रभाषा परिषद्, पटना · 1960 (origin)
Page 267 of 876
Read in context२२६ कथासरित्सागर ततः सानन्दया सार्धं तया वासवदत्तया। हृष्टो वत्सश्वरश्चक्रे कौशाम्बीगमनं मनः॥८॥ गोपालकस्यागमनं प्रतीक्षेथां युवामिह। तेनैव सह पश्चाच्च कौशाम्बीमागमिष्यथः॥९॥ इत्युक्त्वा स्थापयामास स तत्रैव महीपतिः। श्वाशुरं तं प्रतीहारं स्वमित्रं च पुलिन्दकम्॥१०॥ ततोऽनुयातो राजेन्द्रः प्लवद्भिर्मेदनीभरान्। अनुरागागतविन्ध्यप्राग्भारैरिव जङ्गमैः॥११॥ तुरङ्गसैन्यसङ्घातसुराघातसधर्म्मया । स्तूयमान इवोत्क्रान्तवन्दिसन्दर्भया मुदा॥१२॥ नभोविलङ्घिभिः सान्द्ररजोराशिभिरुद्धतैः। सपक्षमूभूदुल्लासशङ्कां कुर्वञ्छतक्रतोः॥१३॥ स प्रतस्थे ततो देव्या सह वासवदत्तया। स्वपुरीं प्रति राजेन्द्रः प्रातरेवापरेऽहनि॥१४॥ ततश्च दिवसैस्त्रिभिरुल्लङ्घ्य तमध्वापं सः। विशश्राम निशामेकां रुमण्वन्मन्दिरे नृपः॥१५॥ अन्येद्युस्तां च कौशाम्बीं चिरात्प्राप्तमहोत्सवां। मार्गोत्सुको मुखजनो प्रविवेश प्रियासखः॥१६॥ तया च स्त्रीभिरारब्धमङ्गलस्नानमण्डना। चिरादुपगते पत्यौ बभौ नारीव सा पुरी॥१७॥ ददृशुश्चात्र पौरास्तं वत्सराजं वधूसखम्। प्रशान्तशोकाः शशिनं सविद्युतमिवाम्बुदम्॥१८॥ हर्म्यप्रस्थांश्च पिबुः पौरनार्यो मुखेन्दिभः। व्योमगङ्गाततोत्फुल्लहेमाम्बुरुहविभ्रमम् ॥१९॥ ततः स्वं राजभवनं वत्सराजो विवेश सः। नृपश्रियवापरया सह वासवदत्तया॥२०॥ छेवामतनुपाकीर्णमागधोद्गीतमङ्गलम् । सुप्तप्रबुद्धमिव तद्रेजे राजगृहं तदा॥२१॥ अथ वासवदत्ताया भ्राता गोपालकोऽचिरात्। आययौ सह कृत्वा तौ प्रतीहारपुलिन्दकौ॥२२॥