BharatKosha
कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५)

कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५)

by महाकवि सोमदेव भट्ट

Source: कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५) · बिहार राष्ट्रभाषा परिषद्, पटना · 1960 (origin)

DevanagariHindipublished876 pages

Page 277 of 876

Read in context
Page 277

२३६ कथासरित्सागर तच्छ्रुत्वा स ददौ तस्य तत्रार्द्धं निजायुषः । प्रत्युज्जिजीव सा तेन सोऽपि तां परिणीतवान् ॥८१॥ अथ क्रुद्धो रुरुर्नित्यं यं यं सर्पं ददर्श सः। तं तं जघान भार्या मे दष्टाऽमीभिर्भवेदिति ॥८२॥ अथैकस्तं जिघांसन्तं मर्त्यवानाह डुण्डुभः । अहिंस्यः कुपितो ब्रह्मन्हंसि त्वं डुण्डुभानकथम् ॥८३॥ अहिना ते प्रिया दष्टा विभिन्नो ह्यहिडुण्डुभौ । अहयः सविषाः सर्वे निर्विषा डुण्डुभा इति ॥८४॥ तच्छ्रुत्वा प्रत्यवादीत्स सखे को नु भवानिति । डुण्डुभोऽप्यवदद्ब्राह्मह शापच्युतो मुनिः ॥८५॥ भवत्संवादपर्यन्तः शापोऽयमभवच्च मे । इत्युक्त्वान्तर्हिते तस्मिन्भूयस्तामब्रवीद्गुरुः ॥८६॥ तदेतदुपमानाय तव देवि मयोदितम् । डुण्डुभेषु प्रहरथ ऋद्धा यूयमहिष्विति ॥८७॥ एवमभिधाय वचनं सन्नर्माहास वसन्तके विरते । वासवदत्ता च प्रति तुतोष पार्श्वे स्थिता पत्युः ॥८८॥ इति मधुमधुराणि वत्सराजश्चरणगतः कुपितानुयापनानि । ससतमुदयनश्चकार देव्या विविधवसन्तकोक्तशतानि कामी ॥८९॥ रसना मदिरारसैकसिक्ता कलवीणारवरागिणी श्रुतिश्च । दयितामुखनिश्चला च दृष्टिः सुखिनस्तस्य सदा बभूव राज्ञः ॥९०॥ इति महाकविश्रीसोमदेवभट्टविरचिते कथासरित्सागरे कथामुखलम्बकेऽष्टमस्तरङ्गः समाप्तश्चायं कथामुखलम्बको द्वितीयः ।