BharatKosha
कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५)

कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५)

by महाकवि सोमदेव भट्ट

Source: कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५) · बिहार राष्ट्रभाषा परिषद्, पटना · 1960 (origin)

DevanagariHindipublished876 pages

Page 283 of 876

Read in context
Page 283

२४२ कथासरित्सागर तस्यां दग्धां च वत्सेशो नवाम्यां परिणेष्यति। देवी दग्धति जातायां ख्यातौ सर्वस्तु रोत्स्यति ॥२४॥ पद्मावत्यां च रुष्टायां सम्बन्धी मगधाधिपः। पश्चात्कोपं न कुरुते सहायत्वं च गच्छति ॥२५॥ ततः पूर्वां विदां जतु गच्छामोऽन्यांश्च सत्क्रमात्। इत्थं वत्सेश्वरस्यैतां साधयामोऽखिलां भुवम् ॥२६॥ कृतोद्योगेषु चास्मासु पृथिवीमेष भूपतिः। प्राप्नुयादेव पूर्वं हि देव्या यागवमद्रवीत् ॥२७॥ ध्रुवेति मन्त्रिवृषभाद् वचो यौगन्धरायणात्। साहसं चेतनाशङ्क्यं रुमण्वांस्तमभाषत ॥२८॥ व्याजः पद्मावतीहेतोः क्रियमाणः कदाचन। दोषायास्माकमेव स्यात्तथा ह्यत्र कथां शृणु ॥२९॥ मूर्खमठाधीशकथा अस्ति माकन्दिका नाम नगरी जाह्नवीतटे। तस्यां मौनव्रतः कश्चिदासीत्प्रव्राजकः पुरा ॥३०॥ स च भिक्षाशनोऽनेकपरिव्राट्परिवारितः। आस्त देवकुलस्यान्तमंठिकायां कृतस्थितिः ॥३१॥ प्रविष्टो जातु भिक्षार्थमेकस्य वणिजो गृहे। स ददर्श शुभां कन्यां भिक्षामादाय निर्गताम् ॥३२॥ दृष्ट्वा चाद्भुतरूपां तां स कामवशगः शठः। 'हा हा कष्ट' मितिस्माह वणिजस्तस्य शृण्वतः ॥३३॥ गृहीतभिक्षश्च ततो जगाम निलयं निजम्। ततस्तं स वणिग्गत्वा रहः पप्रच्छ विस्मितः ॥३४॥ किमद्यैवमकस्मात्त्वं मौनं त्यक्त्वोक्तवानिति। तच्छ्रुत्वा वणिजं तं च परिव्राडेवमब्रवीत् ॥३५॥ दुर्लक्षणेयं कन्या ते विवाहोऽस्या यदा भवेत्। तदा ससुतदारस्य क्षयः स्यात्तव निश्चितम् ॥३६॥ तदेतां वीक्ष्य दुःखं मे जातं भक्तो हि मे भवान्। तेनेवमुक्तवानस्मि त्यक्त्वा मौनं भवत्कृते ॥३७॥ तदेषा कन्यका नक्तं मञ्जूषायां निवेशिता। उपरि न्यस्तदीपायां गङ्गायां क्षिप्यतां त्वया ॥३८॥