BharatKosha
कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५)

कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५)

by महाकवि सोमदेव भट्ट

Source: कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५) · बिहार राष्ट्रभाषा परिषद्, पटना · 1960 (origin)

DevanagariHindipublished876 pages

Page 297 of 876

Read in context
Page 297

२५६ कथासरित्सागर एतच्छ्रुत्वा च वत्सेशः समं वासवदत्तया। क्रीडङ्कलारसद्दध्रे गन्तुं लावाणकं मतिम्॥१२६॥ निश्चितं गमनेऽन्येद्युलग्ने च परिकल्पिते। अकस्मान्नारदमुनिः कान्तिद्योतितदिङ्मुखः॥१२७॥ अवतीय नभोमध्यात् प्रदत्तनयनोत्सवः। धात्रीव स्वकुलप्रीत्या च वत्सेश्वरमभ्यगात्॥१२८॥ गृहीतातिथ्यसत्कारः पारिजातमयीं स्रजम्। प्रीतः स च मुनिस्तस्मै ददौ प्रह्लाय भूभृते॥१२९॥ विद्याधराधिपं पुत्रं कामदेवांशमाप्स्यसि। इति वासवदत्तां च सोऽभ्यनन्दत्कृतान्तरः॥१३०॥ ततश्चोवाच वत्सस्य स्थिते यौगन्धरायणे। राजन् वासवदत्तां ते दृष्ट्वा हन्त स्मृतं मया॥१३१॥ युधिष्ठिरादयोऽभूवन्पुरा त प्रपितामहाः। पञ्चानां द्रौपदी सेषामेका पत्नी बभूव च॥१३२॥ सा च वासवदत्तेव रूपेणाप्रतिमाभवत्। ततस्तद्दोषमाशङ्क्य तानवमहमभ्यधाम्॥१३३॥ स्त्रीवैरं रक्षणीयं वस्तद्धि बीजमिहापदाम्। समाहि शृणुतेसां च कथां वः कथयाम्यहम्॥१३४॥ सुन्दोपसुन्दकथा सुन्दोपसुन्दनामानौ भ्रातरौ द्वौ बभूवतुः। असुरौ विक्रमाक्रान्तलोकत्रितयदुर्जयौ॥१३५॥ तयोर्विनाशकामश्च दत्त्वाज्ञां विश्वकर्मणः। ब्रह्मा निर्मापयामास दिव्यनारीं तिलोत्तमाम्॥१३६॥ रूपमालोकितुं यस्याश्चतुर्विक्क चतुर्मुखः। बभूव किल शर्वोऽपि कुर्व्वाणायाः प्रदक्षिणम्॥१३७॥ सा पद्मयोगरावेक्षात्पार्श्वं सुन्दोपसुन्दयोः। प्रलोभनाय प्रययौ कैलासोद्यानवत्तिनोः॥१३८॥ १ महाभारतस्यादियर्ववि कथेयमुपक्रम्यते।