भारतकोश
कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५)

कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५)

महाकवि सोमदेव भट्ट द्वारा

स्रोत: कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५) · बिहार राष्ट्रभाषा परिषद्, पटना · 1960 (उद्गम)

DevanagariHindipublished876 पृष्ठ

पृष्ठ 327, कुल 876 में से

संदर्भ में पढ़ें
पृष्ठ 327

९८६ कथासरित्सागर सा कन्या जातामात्रैव कान्तिद्योतितवासका। चक्रे सम्यक्तमालाप' मुत्थायोपविवेश च ॥६६॥ ततो विस्मितवित्रस्त स्त्रीजन जातवेश्मनि। दृष्ट्वा स धर्मगुप्तोऽथ सभयः स्वयमाययौ ॥६७॥ पप्रच्छ कन्यकां तां च प्रणतस्तत्क्षणं रहः। भगवत्यवतीर्णासि का त्वं मम गृहेष्विति ॥६८॥ साप्यवादीत्सया नैव देया कस्मैचिदप्यहम्। गृहस्थिता शुभाहं ते पृष्टेनान्येन तात ! किम् ॥६९॥ इत्युक्तः स तया भीतो धर्मगुप्तः स्वमन्दिरे। गुप्तं तां स्थापयामास भृतिरिति स्यापिता बहिः ॥७०॥ सतं सोमप्रभा नाम सा कन्या ववृधे क्रमात्। मानुषेण शरीरेण रूपकान्त्या तु दिव्यया ॥७१॥ एकदा तु प्रमोदेन मधूत्सवविलोकिनीम्। हर्म्यस्थां गुहचन्द्राख्यो वणिक्पुत्रो ददर्श ताम् ॥७२॥ स मनोभवभल्लेयेव सद्यो हृदयलग्नया। तया मुमूच्छैवं त्वा कृच्छाच्च गृहमाययौ ॥७३॥ स्मरार्तिविधुरस्तत्र पित्रोरस्वास्थ्यकारणम्। निर्बन्धपृष्टो वक्ति स्म स्ववयस्यमुखेन सः ॥७४॥ ततोऽस्य गुहसेनाख्यः पिता स्नेहेन याचितुम्। तां कन्यां धर्मगुप्तस्य वणिजो भवनं ययौ ॥७५॥ सद्य तं कृतयाच्ञं स गुहसेनं स्नुषार्थिनम्। कन्या कुतो मे मूढेति धर्मगुप्तो निराकरोत् ॥७६॥ निह्नुतां तत्र कन्यां तां मत्वा गत्वा गृहे सुतम्। दृष्ट्वा स्मरज्वराक्रान्तं गुहसेनो व्यचिन्तयत् ॥७७॥ राजानं प्रप्स्याम्यत्र स हि मे पुत्रमीप्सितं । दापयत्यपि पुत्राय स बन्द्यां तां मुमूर्षवे ॥७८॥ इति निश्चित्य गत्वा च दत्वाराज्ञे रत्नमुत्तमम्। भूपं विज्ञापयामास स वणिक्स्याभिकांक्षितम् ॥७९॥ १ ग सद्योज्ञताय बालस्य भाषणं महत्त्वशंसनम्।