भारतकोश
कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५)

कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५)

महाकवि सोमदेव भट्ट द्वारा

स्रोत: कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५) · बिहार राष्ट्रभाषा परिषद्, पटना · 1960 (उद्गम)

DevanagariHindipublished876 पृष्ठ

पृष्ठ 33, कुल 876 में से

संदर्भ में पढ़ें
पृष्ठ 33

कथासरित्सागर प्रथमस्तरङ्गः मङ्गलाचरणम्

धियं दिशतु वः शम्भोः श्यामः कण्ठो मनोभुवः। अङ्कस्थपार्वतीदृष्टिपाशैरिव विवेष्टितः ॥ १ ॥ सन्ध्यानृत्तोत्सवे तारा करेणोद्धूय बिम्बजित्। सीत्कारसीकरैरन्यां कल्पयन्निव पातु वः ॥ २ ॥ प्रणम्य वाचं निश्शेषपदार्थोद्योतदीपिकाम्। बृहत्कथायाः सारस्य सङ्ग्रहं रचयाम्यहम् ॥ ३ ॥

प्रस्तावना

आद्यमत्र कथापीठं कथामुखमतः परम्। ततो लावानको नाम तृतीयो लम्बको भवेत् ॥ ४ ॥ नरवाहनदत्तस्य जननं च ततः परम्। स्याच्चतुर्दारिकाख्यश्च ततो मदनमञ्चुका ॥ ५ ॥ ततो रत्नप्रभा नाम लम्बकः सप्तमो भवेत्। सूर्यप्रभाभिधानश्च लम्बकः स्यादथाष्टमः ॥ ६ ॥ अलङ्कारवती चाथ ततः शक्तियशा भवेत्। वेलालम्बकसञ्ज्ञश्च भवेदेकादशस्ततः ॥ ७ ॥ शशाङ्कवत्यपि तथा ततः स्यान्मदिरावती। महाभिषेकानुगतस्ततः स्यात्पञ्चलम्बकः ॥ ८ ॥ ततः सुरतमञ्जर्य्यथ पद्मावती भवेत्। ततो विषमशीलस्य लम्बकोऽष्टादशो भवेत् ॥ ९ ॥ यथामूलं तथैवैतन्न मनागप्यतिक्रमः। ग्रन्थविस्तरसङ्क्षेपमात्रं भाषा च भिद्यते ॥ १० ॥ औचित्यान्वयरक्षा च यथाशक्ति विधीयते। कथारसाविघातेन काव्यांशस्य च योजना ॥ ११ ॥ वैदग्ध्यख्यातिलोभाय मम नैवायमुद्यमः। किन्तु नानाकथा-जाल-स्मृति-सौकर्यं सिद्ध्ये ॥ १२ ॥