कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५)
महाकवि सोमदेव भट्ट द्वारा
स्रोत: कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५) · बिहार राष्ट्रभाषा परिषद्, पटना · 1960 (उद्गम)
पृष्ठ 331, कुल 876 में से
संदर्भ में पढ़ें२१० कथासरित्सागर
विनयपृष्टः सोऽप्यस्मै गुहचन्द्रो द्विजन्मने। शशंस तद्गतं सर्वं वृत्तान्तं खिन्नमानसः ॥९६॥ तद्बुद्ध्वा स ततस्तस्मै सानुकम्पो द्विजोत्तमः। अग्नेराराधनं मन्त्रं ददावीप्सितसिद्धये ॥९७॥ तेन मन्त्रेण तस्याग्नेर्जपं रहसि कुर्वतः। उदभूद् गुहचन्द्रस्य पुरतो वह्निमध्यतः ॥९८॥ स चाग्निर्द्विजरूपी तं जगाद परमानतम्। अद्याहं त्वद्गृहे भोक्ष्ये रात्रौ स्थास्यामि तत्र च ॥९९॥ दर्शयित्वा च तत्त्वं ते साधयिष्यामि वाञ्छितम्। इत्युक्त्वा गुहचन्द्रं स ब्राह्मणस्तद्गृहं ययौ ॥१००॥ तत्रान्यतिप्रवद् भुक्त्वा गुहचन्द्राऽन्तिके च सः। सिषेवे शयनं रात्रौ याममात्रमतन्द्रितः ॥१०१॥ तावच्च ससुप्तजनात् सा तस्मात्तस्य मन्दिरात्। निर्ययौ गुहचन्द्रस्य भार्या सोमप्रभा निशि ॥१०२॥ तत्कालं ब्राह्मणः सोऽथ गुहचन्द्रमबोधयत्। एहि स्वभार्यावृत्तान्तं पश्यत्येनमुवाच च ॥१०३॥ योगेन भृङ्गरूपं च कृत्वा तस्यात्मनस्तथा। निर्गत्यान्वगमत्तस्य भार्या तां गृहनिर्गताम् ॥१०४॥ सा जगाम सुदूरं च सुन्दरी नगराद् बहिः। गुहचन्द्रेण साकं च द्विजोऽप्यनुजगाम ताम् ॥१०५॥ ततस्तत्र महाभोगं सच्छायस्कन्धसुन्दरम्। गुहचन्द्रो ददर्शानेकं न्यग्रोधपादपम् ॥१०६॥ तस्याधस्ताच्च शुश्राव वीणावेणुरवान्वितम्। उल्लसद्गीतमधुरं दिव्यं सङ्गीतध्वनिम् ॥१०७॥ स्कन्धदेशे च तस्यैकां स्वभार्यासदृशाकृतिम्। अपश्यत् कन्यकां दिव्यामुपविष्टां महासने ॥१०८॥ निकान्तिजितज्योत्स्नां शुक्लचामरवीजिताम्। इन्दोर्लावण्यसर्वस्व-कोषस्येवाधिदेवताम् ॥१०९॥ अत्रावान्तरवृत्ते च तस्या अर्धसने तथा। उपविष्टां स्वभार्यां तां गुहचन्द्रो ददर्श सः ॥११०॥