कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५)
महाकवि सोमदेव भट्ट द्वारा
स्रोत: कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५) · बिहार राष्ट्रभाषा परिषद्, पटना · 1960 (उद्गम)
पृष्ठ 365, कुल 876 में से
संदर्भ में पढ़ें१२४ कथासरित्सागर
तस्य च स्कन्धमारुह्य निर्यद्वक्त्रामलाधिपः । आनेतुं राजपुत्रीं तामुत्पत्य नभसा ययौ ॥ १६५ ॥ विदूषकोऽपि तत्सर्वं दृष्ट्वा तत्र व्यचिन्तयत् । कथं राजसुतानेन हन्यत मयि जीवति ॥ १६६ ॥ इहैव तावत्तिष्ठामि यावदायास्यसौ शठः । इत्यालोच्य स तत्रैव तस्थौ छन्नो विदूषकः ॥ १६७॥ प्रव्राजकश्च गत्वैव वातायनपथेन सः । प्रविश्यान्तःपुरं प्राप सुप्तां निशि नृपात्मजाम् ॥ १६८ ॥ आययौ च गृहीत्वा तां गगनेन तमोमयः । कान्तिप्रकाशितदिशं राहुः शशिकलामिव ॥ १६९ ॥ हा तात हाम्बति च तां क्रन्दन्तीं कन्यकां वहन् । तत्रैव देवीभवनं सोऽन्तरिक्षादवातरत् ॥ १७० ॥ प्रविवेश च तत्कालं वेतालं प्रविमुच्य सः । कन्यारत्नं तदादाय देवीगर्भगृहान्तरम् ॥ १७१ ॥ सत्र यावन्निहन्तुं तां राजपुत्रीमियेष सः । तावदाकृष्टखड्गोऽत्र प्रविवेश विदूषकः ॥ १७२ ॥ आः पाप ! मालतीपुष्पमश्मना हन्तुमीहसे । यदस्यामाकृतौ शस्त्रं व्यापारयितुमिच्छसि ॥ १७३॥ इत्युक्त्वाकृष्य केशेषु शिरस्तस्य विवस्वतः । प्रव्राजकस्य चिच्छेद खड्गेन स विदूषकः ॥ १७४॥ आश्वासयामास च तां राजपुत्रीं भयाकुलाम् । प्रविशन्तीमिवाङ्गानि किञ्चित्प्रत्यभिजानतीम् ॥ १७५॥ कथमन्तःपुरं राज्ञो राजपुत्रीमिमामिह । नययमिति तत्कालमसौ धीरो व्यचिन्तयत् ॥ १७६॥ भो विदूषक ! शृण्वेतद्योऽस्य प्रव्राट् त्वया हतः । महानेतस्य वेतालः सिद्धोऽभूत्सर्पपास्तथा ॥ १७७॥ ततोऽस्य पृथ्वाराज्ये च वाञ्छा राजात्मजासु च । उदपद्यत तेनायमेव मूढोऽद्यवञ्चितः ॥ १७८ ॥ तद्गृहाणसवीमांस्त्व सर्पपान्वीर येन ते । इमामेकां निशामद्य भविष्यत्यम्बरे गतिः ॥ १७९॥