भारतकोश
कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५)

कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५)

महाकवि सोमदेव भट्ट द्वारा

स्रोत: कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५) · बिहार राष्ट्रभाषा परिषद्, पटना · 1960 (उद्गम)

DevanagariHindipublished876 पृष्ठ

पृष्ठ 375, कुल 876 में से

संदर्भ में पढ़ें
पृष्ठ 375

३३४ कथासरित्सागर स्मरन्विद्याप्रपञ्चं स पश्यंश्चैवाङ्गुलीयकम्। विषादविस्मयावशवशाः सोऽभूद् विद्रूपकः ॥२४०॥ अचिन्तयच्च तस्याः स वचः स्वप्नमिव स्मरन् । गता ताम्रलिप्तेयैव सा ममोदयपर्वतम् ॥२४१॥ तन्मयाप्याशु तत्रैव गन्तव्यं तदवाप्तये । न चैव लोकदृष्टं मां मुक्त्वा राजा परित्यजेत् ॥२४२॥ तस्माद्युक्तिं करोमीह कार्यं सिद्ध्यति मे यथा। इति सञ्चिन्त्य मतिमान् रूपमन्यत्स शिश्रिये ॥२४३॥ जीर्णवासा रजोलिप्तो भूत्वा देवीगृहात्ततः । निरगाच्च 'हा भद्रे ! हा भद्रे इति स ब्रुवन् ॥२४४॥ सत्वरं च विलोक्यैनं जनास्तत्क्षणवर्तिनः । सोऽयं विद्रूपकः प्राप्त इति कोलाहलं व्यधुः ॥२४५॥ बुद्ध्वा च राजा निर्गत्य स्वयं दृष्ट्वा तथाविधम् । उन्मत्तचेष्टोऽवष्टभ्य स नीतोऽभूत् स्वमन्दिरम् ॥२४६॥ तत्र स्नेहाकुलैर्यद्यदुक्तोऽभूद् भृत्यबान्धवैः । तत्र तत्र स 'हा भद्रे' इति प्रत्युत्तरं ददौ ॥२४७॥ वस्त्रोपदिष्टैरभ्यङ्गैरभ्यक्तोऽपि स तत्क्षणम् । अङ्गमूद्धूलयामास भूरिणा भस्मरेणुना ॥२४८॥ स्नेहेन राजपुत्र्या च स्वहस्ताभ्यामुपाहृतः । माहारस्तेन सहसा पादेनाहत्य विक्षिपे ॥२४९॥ एवं स तस्थौ कतिभिर्द्दिवसैस्तत्र निःस्पृहः । पाटयन्निजबस्त्राणि कृतोन्मादो विद्रूपकः ॥२५०॥ अशक्यप्रतिकारोऽयं तत्किमर्थं कदर्य्यते । त्यजेत् कदाचन प्राणान् ब्रह्महत्या भवेत्ततः ॥२५१॥ स्वच्छन्दचारिणस्त्वस्य कारणं कुशलं भवेत् । इत्यालोच्य स चादित्यसेनो राजा मुमोच तम् ॥२५२॥ ततः स्वच्छन्दचारी सप्रन्यद्युः साङ्गुलीयकः । धीरो भद्रां प्रति स्वरं स प्रतस्थे विद्रूपकः ॥२५३॥ गच्छन्नहःरहः प्राच्यां दिशि प्राप स च क्रमात् । मध्ये मागधशायार्तं नगरं पोण्ड्रवर्धनम् ॥२५४॥