भारतकोश
कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५)

कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५)

महाकवि सोमदेव भट्ट द्वारा

स्रोत: कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५) · बिहार राष्ट्रभाषा परिषद्, पटना · 1960 (उद्गम)

DevanagariHindipublished876 पृष्ठ

पृष्ठ 377, कुल 876 में से

संदर्भ में पढ़ें
पृष्ठ 377

[Header] ३३६ कथासरित्सागर


मातरत्र वसाम्येकां रात्रिमित्यभिधाय सः। ब्राह्मण्यास्तत्र कस्याश्चिद् वृद्धायाः प्राविशद् गृहम् ॥२५५॥ प्रतिपन्नाश्रया सा च कृतातिथ्या क्षणान्तरे। ब्राह्मणी समुपेतैव सान्तर्बाष्पा जगाद तम् ॥२५६॥ तुभ्यमेव मया दत्तं पुत्र ! सर्वमिदं गृहम्। तद् गृहाण यतो नास्ति जीवितं मम साम्प्रतम् ॥२५७॥ कस्मादेवं ब्रवीषीति तेनोक्ता विस्मितेन सा। श्रूयतां कथयाम्येतदित्युक्त्वा पुनरब्रवीत् ॥२५८॥ अस्तीह देवासनाख्ये नगरे पुत्र ! भूपतिः। तस्यैका समुत्पन्ना कन्या भूतलभूषणम् ॥२५९॥ मया दुःखेन लब्धेयमिति तां दुःशलब्धिकाम्। नाम्ना चकार स नृपस्तनाममतिवत्सलः ॥२६०॥ कालेन यौवनारूढामानीताय स्ववेश्मनि। राज्ञे कच्छपनाथाय तां प्रादाच्चाथ भूपतिः ॥२६१॥ स कच्छपेश्वरः स्वस्या वध्वा वासगृहं निशि। प्रविष्ट एव प्रथमं तत्काल पञ्चतां ययौ ॥२६२॥ ततो विमनसा राज्ञा भूयोऽप्येतेन सा सुता। दत्तायस्मै नृपायाभूत्सोऽपि तद्वद् व्यपद्यत ॥२६३॥ तन्भयाच्च तदान्येऽपि नृपा वाञ्छन्ति नैव ताम्। तदा सेनापतिं राजा निजमेवं समादिशत् ॥२६४॥ इतो देशात्स्वयंकैकं क्रमादेकैकतो गृहात्। पुमान् प्रत्यहमानेयो ब्राह्मणः क्षत्रियोऽथवा ॥२६५॥ आनीय च प्रवेश्योऽत्र रात्रौ मत्पुत्रिकागृहे। पश्यामोऽत्र विपद्यन्ते कियन्तोऽत्र कियच्चिरम् ॥२६६॥ उत्तरिष्यति यश्चात्र सोऽस्या भर्त्ता भविष्यति। गतिः शक्या परिच्छेत्तुं महाद्भुतविधुर्विधेः ॥२६७॥ इति सेनापती राज्ञा समादिष्टो दिने दिने। वारक्रमेण गेहेभ्यो नयत्येव नरानिह ॥२६८॥ एवं च तत्र यातानि क्षयं नरशतान्यपि। मम भ्रातृवपुष्याया एकः पुत्रोऽत्र वर्तते ॥२६९॥

कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५) · पृष्ठ 377, कुल 876 में से · BharatKosha