कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५)
महाकवि सोमदेव भट्ट द्वारा
स्रोत: कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५) · बिहार राष्ट्रभाषा परिषद्, पटना · 1960 (उद्गम)
पृष्ठ 379, कुल 876 में से
संदर्भ में पढ़ें३३८ कथासरित्सागरे
तस्य वारोऽद्य सम्प्राप्तस्तत्र गन्तु विपत्तय। तदभावे मया कार्य प्रातरग्निप्रवेशनम् ॥२७०॥ तज्जीवन्ती स्वहस्तेन तुभ्यं गुणवते गृहम्। ददामि सर्वं यन स्यां न पुनर्दुःखभागिनी ॥२७१॥ एवमुक्तवतीं धीरस्तामवोचद् विदूषकः । यद्यवमम्व तर्हि त्व मास्म विह्वलतां कृथा ॥२७२॥ अह सत्राय गच्छामि जीवत्वेकसुतस्तव । किमेत घातमामीति कृपा ते मयि मा च भूत् ॥२७३॥ सिद्धियोगाद्धि नास्त्येव भय सत्र गतस्य मे। एव विदूषकेणोक्ता ब्राह्मणी सा जगाद तम् ॥२७४॥ तर्हि पुण्यंममायातः कोऽपि देवो भवानिह। तत्त्राणान्देहिन् पुत्र ! कुशलं च तथारमनि ॥२७५॥ एव तया सोऽनुमत साय राजसुतागृहम्। सेनापतिनियुक्तेन किङ्करेण सम ययौ ॥२७६॥ तत्रापश्यन्नृपसुतां तां यौवनमवोद्धताम् । मत्तामनुच्चितस्फीतपुण्यमारानतामिव ॥२७७॥ ततो निशार्था शयने राजपुत्र्या तयाधिते । ध्यातोपनतमाग्नय खड्ग बिभ्रत्करेण सः ॥२७८॥ वासवेदमनि तत्रामीज्जाग्रदेव विद्रूपकः । पश्यामि तावत्को हन्ति नरानत्रेति धिस्तमन् ॥२७९॥ प्रसुप्ते च जने क्षिप्रावपावृतकपाटकम्। स द्वारदशादायान्तं घोरं राक्षसमद्रात् ॥२८०॥ स च द्वारिस्थितस्तत्र राक्षसो वासवान्तर । भुजं नरनताकाण्डयमदण्ड म्यवदायन् ॥२८१॥ विदूषकश्च चिच्छेद् धावित्वा सस्य तं क्रुधा। एक खड्गप्रहारेण बाहु सपदि रक्षसः ॥२८२॥ छिन्नबाहु पलाय्याशु जगाम स निशाचरः । भूयोऽनागमनायैव तन्मत्त्वोत्कर्षभीतिनः ॥२८३॥ प्रबुद्ध्वा वीक्ष्य पतिनं रक्तोद्वाहं नृपात्मजा। भीता च जातहर्षा च विस्मिता च बभूव सा ॥२८४॥