भारतकोश
कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५)

कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५)

महाकवि सोमदेव भट्ट द्वारा

स्रोत: कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५) · बिहार राष्ट्रभाषा परिषद्, पटना · 1960 (उद्गम)

DevanagariHindipublished876 पृष्ठ

पृष्ठ 387, कुल 876 में से

संदर्भ में पढ़ें
पृष्ठ 387

१४५ कथासरित्सागर ददर्श राजकन्यां च साक्षात्कृत्यानुरागिणीम् । नराक्ष्यदुःखबिधुरं पश्यन्तीं सालसां दृशा ॥१२८॥ आसीच्च जागद्देवान्न स रात्राववलोकयन् । करे कृपाणमाग्नेयं चिन्तितोपनतं दधत् ॥१२९॥ अकस्माच्च महाघोरं ददर्श द्वारि राक्षसम् । छिन्नदक्षिणबाहुत्वात् प्रसारितभुजान्तरम् ॥१३०॥ दृष्ट्वा व्यचिन्तयंश्चासो हन्त सोऽयं निशाचरः । यस्य बाहुर्मया छिन्नो नगरे पौण्ड्रवर्धने ॥१३१॥ तदद्य न पुनर्बाहौ प्रहरिष्याम्यसो हि मे । पलाय्य पूर्ववद्गच्छेत्तस्मात्साधु निहन्म्यमुम् ॥१३२॥ इत्यालोच्य प्रधाव्यैव कचेष्वाकृष्य तस्य सः । राक्षसस्य शिरश्छेत्तुं समारेभे विदूषकः ॥१३३॥ तत्क्षणं भीतभीतश्च समुवाच स राक्षसः । मा मां वधीः सुसत्त्वस्त्वं तत्कुरुष्व कृपामिति ॥१३४॥ किं नामा त्वं च केयं च तव चेष्टेति तेन सः । मुक्त्वा पृष्टश्च वीरेण पुनराह स राक्षसः ॥१३५॥ यमदंष्ट्राभिधानस्य ममाभूतां सुते इमे । इयमेका तथान्या च पौण्ड्रवर्धनवासिनी ॥१३६॥ अधीरपुरुषासक्तारक्षणीय नृपात्मजे । शङ्कराज्ञा प्रसादो हि ममाभूदयमीदृशः ॥१३७॥ तत्राद्यो बाहुरेकेन छिन्नो मे पौण्ड्रवर्धने । त्वया चाद्य जितोस्मीह तत्समाप्तमिदं मम ॥१३८॥ तच्छ्रुत्वा स विहस्यैनं प्रत्युवाच विदूषकः । ममैव स भुजस्तत्र लूनस्ते पौण्ड्रवर्धने ॥१३९॥ राक्षसोऽप्यवदत्तर्हि देशांशस्त्वं न मानुषः । मन्ये त्वदर्थमेवाभूच्छर्वस्यानुग्रहः स मे ॥१४०॥ तदिदानीं सुहृन्मे त्वं यदा मां च स्मरिष्यसि । तदाहं सन्निधास्ये ते सिद्धये सङ्कटेष्वपि ॥१४१॥ एवं स राक्षसो मैत्र्या वरयित्वा विदूषकम् । तेनाभिनन्दितवचा यमदंष्ट्रस्तिरोदधे ॥१४२॥