भारतकोश
कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५)

कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५)

महाकवि सोमदेव भट्ट द्वारा

स्रोत: कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५) · बिहार राष्ट्रभाषा परिषद्, पटना · 1960 (उद्गम)

DevanagariHindipublished876 पृष्ठ

पृष्ठ 395, कुल 876 में से

संदर्भ में पढ़ें
पृष्ठ 395

१५४ कथासरित्सागर ततो रक्षोरथात्स्वस्तामानीय वणिक्सुताम्। स मद्राजपुत्रीभ्यां सहवोदपतन्नभः ॥३८८॥ दर्शयन्निजकान्तानां द्युमार्गेण ततार च। विलसत्सत्त्वसंरम्भं स्वपौरुषमिवाम्बुधिम् ॥३८९॥ प्राप तच्च स भूयोऽपि नगरं पौण्ड्रवर्धनम्। दृष्टः सविस्मयं सर्वैर्वाहनीकृतराक्षसः ॥३९०॥ तत्र तां देवसेनस्य सुतां राज्ञश्चिरोत्सुकाम्। भार्यां सम्भावयामास राक्षसावजयार्जिताम् ॥३९१॥ रुध्यमानोऽपि तत्पित्रा स स्वदेशसमुत्सुकः। गृहीत्वा तामपि ततः प्रायादुज्जयिनीं प्रति ॥३९२॥ अचिरेण च तां प्राप पुरीं राक्षसयोगतः। बहिर्गतामिवारामीयवेशदर्शननिर्वृतिम् ॥३९३॥ अधोपरिस्थितस्तस्य महाकायस्य रक्षसः। अस्पृष्टद्भूध्रकान्तिप्रकटितारमनः ॥३९४॥ स जनैर्ददृशे तत्र शिखरे ज्वसितोषधौ। द्यक्षाङ्क इव पूर्वाद्रिसवयस्यो विदूषकः ॥३९५॥ ततो विस्मितविभ्रस्ते जने श्रुत्वेत्थाम् भूपतिः। आदित्यसेनो निरगात्स्वश्वशुरोऽस्य तदा पुरः ॥३९६॥ विदूषकस्तु दृष्ट्वा तमवतीर्णाशु राक्षसात्। प्रणम्य नृपमभ्यागाद्भूयोऽप्यभिननन्द तम् ॥३९७॥ अवतार्यैव तत्स्कन्धात् स्वभार्यास्ततोऽग्रिणः। मुमोच शापपाराय राक्षसः स विदूषकः ॥३९८॥ गते च राक्षसे तस्मिन्स तन सह भूभुजा। श्वशुरेण सभार्यः सन् प्राविशद्राजमन्दिरम् ॥३९९॥ तत्र तां प्रथमां भार्यां तनयां तस्य भूपतेः। आनन्दयदुपागत्य चिरोत्कण्ठावशीकृताम् ॥४००॥ कयमेतास्त्वया भार्याः प्राप्ताः कद्नप राक्षसाः। इति पृष्टः स राज्ञाथ सवमस्मै शशंस तत् ॥४०१॥ ततः प्रभावतुष्टेन तेन तस्य महीभृता। जामातुर्निजराज्याय प्रदत्त कायवंदिना ॥४०२॥