BharatKosha
कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५)

कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५)

by महाकवि सोमदेव भट्ट

Source: कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५) · बिहार राष्ट्रभाषा परिषद्, पटना · 1960 (origin)

DevanagariHindipublished876 pages

Page 409 of 876

Read in context
Page 409

१६८ कथासरित्सागर तन्मुखेनैव राज्ञश्च ब्रह्मदत्तस्य पृच्छतः । सोऽभूत्तमं रहस्यस्य प्राप्ते वत्सेशाविग्रहे ॥७९॥ अथास्य ब्रह्मदत्तस्य मन्त्री योगकरण्डकः । चकार वत्सराजस्य व्याजानागच्छतः पथि ॥८०॥ अदूपयत्प्रतिपथं विषादिद्रव्ययुक्तिभिः । वृक्षान् कुसुमवल्लीश्च तोयानि च तृणानि च ॥८१॥ विदधे विषकन्याश्च सन्त्य पन्थविलासिनीः । प्राहिणोत्पुरुषांश्चैव निद्रासु च्छद्मघातिनः ॥८२॥ तच्च विज्ञाय स शान्तिलिङ्गी चारो न्यवेदयत् । यौगन्धरायणायाशु स्वसहायमुखस्तदा ॥८३॥ यौगन्धरायणोऽप्येतद् बुद्ध्वा प्रतिपदं पथि। दूषितं तृणतोयादि प्रतियोगैरशोधयत् ॥८४॥ अपूर्वस्त्रीसमायोगं कटके निषिषेध च। अबधीद् वधकांस्तांश्च स्तब्धा सह समन्त्रता ॥८५॥ तद्बुद्ध्वा ध्वस्तमायं सन् सैन्यपूरितदिक्मुखम् । वत्सेश्वरं ब्रह्मदत्तो मेने दुर्जयमेव तम् ॥८६॥ सुमन्त्र्य दत्त्वा दूतं च शिरोविरचिताञ्जलिः । ततः स निकटीभूतं वत्सेशं स्वयमभ्यगात् ॥८७॥ वत्सराजोऽपि तं प्राप्तं प्रवृत्तोपायनं नृपम् । प्रीत्या सम्मानयामास शूरा हि प्रणतिप्रियाः ॥८८॥ वत्सराजस्य दिग्विजयकथा इत्थं तस्मिञ्जिते प्राचीं शमयन्नमयन् भूभून् । उन्मूल्यंश्च कठिनांश्चापात्यायुरिव द्रुमान् ॥८९॥ प्राप च प्रबलं प्राच्यं चलद्वीचीविघूर्णितम् । वङ्गावजयविभ्रासबपमाममिवाम्बुधिम् ॥९०॥ तस्य वेलातटान्तं च जयस्तम्भं चकार सः । पातालामययाच्छीर्षं नागराजमिवोद्गतम् ॥९१॥ १ तुलना कार्या— वङ्गानूत्खाय तरसा नेता नौ साधनोद्यतान्। निचखान जयस्तम्भान् गङ्गास्रोतोऽन्तरेषु सः॥ —रघुवंशे, ४ सर्गे।

कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५) · Page 409 of 876 · BharatKosha