कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५)
महाकवि सोमदेव भट्ट द्वारा
स्रोत: कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५) · बिहार राष्ट्रभाषा परिषद्, पटना · 1960 (उद्गम)
पृष्ठ 411, कुल 876 में से
संदर्भ में पढ़ें३७० कथासरित्सागर अवनम्य करे दत्ते कलिङ्गैरग्रगेस्ततः । आरुरोह महेन्द्राद्रिं यशस्तस्य यशस्विनः ॥९२॥ महेन्द्राभिभवाद् भीतैर्विन्ध्यकूटैरिवागतैः । गजैर्जित्वाटवीं राज्ञां स ययौ दक्षिणां दिशम् ॥९३॥ तत्र चक्रे स निःसारपाण्डुरामपगर्जितान् । पर्वताश्रयिणः शत्रून् शरत्काल इवाम्बुदान् ॥९४॥ उल्लङ्घ्यमाना कावेरी तन समवकारिणा । चोलकदम्बरकीर्तिश्च कालुष्यं ययतुः समम् ॥९५॥ न परं मुरलानां स सेहे मूर्धसु नोन्नतिम् । करैराहन्यमानेषु यावत्कान्ताकुचष्वपि ॥९६॥ यत्तस्य सप्तधा भिन्नं पपुर्गोदावरीपयः । मातङ्गास्तन्मदम्भाजाद् सप्तधवामुपक्षितम् १ ॥९७॥ अषोत्तीर्य स वत्सेशो रेवामुज्जयिनीमगात् । प्रविषेश च तां चण्डमहासेनपुरस्कृतः ॥९८॥ स मास्यदृलथधम्मिल्लशोभाद् वैगुण्यशालिनाम् । मालवस्त्रीकटाक्षाणां ययौ पात्रेषु लक्ष्यत्ताम् ॥९९॥ तस्थौ च निर्वृतस्तत्र तथा श्वशुरसत्कृतः । विसस्मार यथाभीष्टामपि भोगान् स्वदेशजान् ॥१००॥ आसीद् वासवदत्ता च पितुः पार्श्वविवर्त्तिनी । स्मरन्ती बालभावस्य सौख्येऽपि विमना इव ॥१०१॥ राजा चण्डमहासेनस्तया तनयया यथा । तथैव पद्मावत्यापि नन्दति स्म समागतः ॥१०२॥ विश्रम्य च निशाः काश्चित्प्रीतो वत्सश्वरस्ततः । अन्वितः श्वशुरैः सैन्यैः प्रययौ पश्चिमां दिशम् ॥१०३॥ १ अनुयथेव समाना तत्तथैव प्रमुस्तुबुः—रघु ४ सर्गे ।