भारतकोश
कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५)

कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५)

महाकवि सोमदेव भट्ट द्वारा

स्रोत: कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५) · बिहार राष्ट्रभाषा परिषद्, पटना · 1960 (उद्गम)

DevanagariHindipublished876 पृष्ठ

पृष्ठ 415, कुल 876 में से

संदर्भ में पढ़ें
पृष्ठ 415

१७४ कथासरित्सागर ततो मगधभूभृता सनगरण वनाचितः समग्रजनमानसैनुगतोऽनुरागागतः । निगीर्णवसुधातलो बलबरेण सावाणक जगाम विषयं निजं स किल वत्सराजो जयी ॥११८॥ इति महाकविश्रीसोमदेवभट्टविरचिते कथासरित्सागरे लावाणकलम्बके पञ्चमस्तरङ्गः । षष्ठस्तरङ्गः वत्सराजकथा (पूर्वानुवृत्ता) ततः स सेनाविश्रान्त्यै तत्र लावाणके स्थितः । रहस्युवाच वत्सदो राजा यौगन्धरायणम् ॥१॥ त्वद्बुद्ध्या निर्जिताः सर्वे पृथिव्यां भूभृतो मया । उपायस्वीकृतास्ते च नैव व्यभिचरन्ति मे ॥२॥ वाराणसीपतिस्तेषां ब्रह्मदत्तो दुराशयः । जाने व्यभिचरत्येको विश्वासः कुटिलद्रुपु कः ॥३॥ इति वत्सेश्वरेणोक्त आह यौगन्धरायणः । न राजन् ब्रह्मदत्तस्ते भूयो व्यभिचरिष्यति ॥४॥ आश्वस्तोपनतस्तेषां भृशं सम्मानितस्त्वया । शुभाचारस्य कः कुर्यादशुभं हि सचतनः ॥५॥ कुर्वीत वा यस्तस्यैव तदात्मन्यशुभं भवेत् । तथा च श्रूयतामत्र कथां ते वर्णयाम्यहम् ॥६॥ फलबूतोः कथा बभूव पद्मविषये पुरा कोऽपि द्विजोत्तमः । ख्यातिमानग्निदत्ताख्यो भूभृत्साप्रहार भुक् ॥७॥ तस्यैकः सोमदत्ताख्यः पुत्रो ज्यायानजायत । द्वितीयश्चाभवद् वडवानरदत्ताख्यया सुतः ॥८॥ १ राजभिः ब्राह्मणेभ्यो महाविद्वत्ताद्ध्ययसविधे दलक्त्वेन प्रदत्ता हप्त्टिमूविराहार इत्युच्यते । दक्षिणदेशेऽग्रहाराणां प्राचुर्यं वर्तते ।

कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५) · पृष्ठ 415, कुल 876 में से · BharatKosha