कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५)
महाकवि सोमदेव भट्ट द्वारा
स्रोत: कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५) · बिहार राष्ट्रभाषा परिषद्, पटना · 1960 (उद्गम)
पृष्ठ 427, कुल 876 में से
संदर्भ में पढ़ें१८६ कथासरित्सागर इत्युक्ता शम्भुना देवी चक्रे विघ्नेश्वरार्चनम्। अनलोऽपि सगर्भोऽभूत्तेन वीर्येण धूर्जटे ॥८४॥ ससर्ज शाम्भवं बिभ्रत्स सदा दिवसेष्वपि। अन्तःप्रविष्टतिग्मांशुरिव सप्ताश्विरावभौ ॥८५॥ ऊढवांश्च गङ्गायां सत्तजः सोऽथ दुःसहम्। गङ्गानयज्जन्मेरौ वह्निकुण्डे हराज्ञया ॥८६॥ तत्र संरक्ष्यमाणः सन् स गर्भः शाम्भवोऽग्नौ। निसृत्याब्दमहस्रेण कुमारोऽभूत्षडाननः ॥८७॥ ततो गौरीनियुक्तानां कृतिकानां पयोधरान्। षण्णां षड्भिर्मुखैः पीत्वा स्वल्पैः स ववृधे दिनैः ॥८८॥ अत्रान्तरे देवराजस्तारकासुरनिर्जितः। शिश्रिये मेरुशृङ्गाणि दुर्गाण्युज्झितसङ्गरः ॥८९॥ देवाश्च साकमृषिभिः षण्मुखं शरणं ययुः। षण्मुखोऽपि सुरान् रक्षन्नासीत्तैः परिवारितः ॥९०॥ तद्बुद्ध्वा हारितं मत्वा राज्यमिन्द्रोऽथ चुक्रुधे। योधयामास गत्वा च कुमारं स समत्सरः ॥९१॥ तद्वज्राभिहतस्याङ्गात् षण्मुखस्योद्बभूवतुः। पुंसौ शाखविशाखाख्यावुभावतुलतेजसौ ॥९२॥ सपुत्रं च तमाक्रान्तशास्त्रस्तत्तुपराक्रमम्। उपेत्य तनयं शर्वः स्वयं युद्धादवारयत् ॥९३॥ जातोऽसि तारकं हन्तुं राज्यं चन्द्रस्य रक्षितुम्। तत्कुरुष्व निजं कार्यमिति चनं शशास सः ॥९४॥ ततः प्रणम्य प्रीतेन तत्क्षणं वृत्रवैरिणा। सैनापत्याभिषेकोऽस्य कुमारस्योपचक्रमे ॥९५॥ स्वयमुत्क्षिप्तकलशस्तब्धबाहुरभूत्तदा । ततः शक्रः शुभमगावथेनमवदच्छिवः ॥९६॥ न पूजितो गजमुखः सेनान्यं वाञ्छता त्वया। समैव विघ्नो जातस्ते तत्कुरुष्व तदर्चनम् ॥९७॥ तच्छ्रुत्वा सतथा कृत्वा मुक्तबाहुः शचीपतिः। अभिषेकोत्सवं सम्यक्सेनान्ये निरवर्तयत् ॥९८॥