भारतकोश
कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५)

कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५)

महाकवि सोमदेव भट्ट द्वारा

स्रोत: कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५) · बिहार राष्ट्रभाषा परिषद्, पटना · 1960 (उद्गम)

DevanagariHindipublished876 पृष्ठ

पृष्ठ 437, कुल 876 में से

संदर्भ में पढ़ें
पृष्ठ 437

१९६ कथासरित्सागर स च तस्याः पतिः क्रोधाद् गत्वावध्यमुदीर्य च। अग्रे सुन्दरकस्याशु वारयामास भोजनम्॥१५७॥ ततः सुन्दरकः सद्यस्तद्वेश्म त्यक्तुमुद्यतः। जानन्नुत्पतनं व्योम्नि मन्त्रं गोवाटशिक्षितम्॥१५८॥ ततोऽवरोहेऽप्यपरं शिक्षितुं धृतविस्मितम्। सदेवं शून्यगोवाटहर्म्यं निशि पुनर्ययौ॥१५९॥ तत्र तस्मिन् स्थितः प्राग्वत्कालरात्रिरुपेत्य सा। तमथोत्पत्य हर्म्यस्था व्योम्नैवोज्जयिनीं ययौ॥१६०॥ तत्रावतार्य मन्त्रेण गोवाटं चारुवाटके। जगाम रात्रिचर्यायै पुनः सा पितृकाननम्॥१६१॥ तं च सुन्दरको मन्त्रं भूयः श्रुत्वापि नाग्रहीत्। विना हि गुर्वादेशेन सम्पूर्णा सिद्धयः कुतः॥१६२॥ ततोऽन्नं भुक्त्वा कतिचिन्मूलकान्यपराणि च। नेतुं प्रक्षिप्य गोवाटे तत्र तस्थौ स पूर्ववत्॥१६३॥ अथेत्यारूढगोवाटा सा गत्वा नभसा निशि। विवेश काञ्चीं स्वं सद्यः स्थापितवाहना॥१६४॥ सोऽपि सुन्दरकः प्रातर्गोवाटात्रिर्गतस्ततः। ययौ भोजनमूल्यार्थी विपणीमाप्तमूलकः॥१६५॥ विक्रीणानस्य तस्यात्र मूलकं राजसेवकाः। मानणीया विना मूल्यं जहृर्द्दृष्ट्वा स्ववेशजम्॥१६६॥ ततः स कलहं कुर्वञ्जघ्नेऽथ सुहृदनुद्रुतः। पाषाणघातदायीति राजान्तेस्तैरनीयत॥१६७॥ मारुबालकचमानीय क्वायङ्कुब्जोऽत्र मूलकम्। विक्रीणीषे सवेरयेष पृष्टोऽस्माभिर्न जल्पसि॥१६८॥ हन्ति प्रत्युत पाषाणैरित्युक्तस्तं शठं नृपः। तं तदद्भुतमप्राक्षीत्ततस्तत्सुहृदोऽब्रुवन्॥१६९॥ अस्माभिः सह यद्येष प्रासादमधिरोप्यते। तदेतत्कौतुकं देव कृत्स्नं जल्पति नान्यथा॥१७०॥ तथेत्यारोपितो राज्ञा संप्रासादोऽस्य पश्यतः। उत्पपात स मन्त्रेण सद्यः सुन्दरको नभः॥१७१॥