कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५)
महाकवि सोमदेव भट्ट द्वारा
स्रोत: कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५) · बिहार राष्ट्रभाषा परिषद्, पटना · 1960 (उद्गम)
पृष्ठ 443, कुल 876 में से
संदर्भ में पढ़ें४०२ कथासरित्सागर
तथेति निर्गतं तं च फलभूतिं बहिस्तदा । एत्य चन्द्रप्रभो नाम राज्ञः पुत्रोऽब्रवीदिदम् ॥२०३॥ अनेन शीघ्रं हेम्ना मे कारयाद्यैव कुण्डल । यादृशं भवता पूर्वमार्य ! तातस्य कारिते ॥२०४॥ इत्युक्तो राजपुत्रेण फलभूतिस्तदैव सः । कृतानुरोधः प्रहितो ययौ कुण्डलयोः कृते ॥२०५॥ राजपुत्रोऽप्यगात्त्वरं वञ्चितं फलभूतिना । राजादेशं गृहीत्वा समकाक्येव महानसम् ॥२०६॥ तत्रोक्तराजादेशं तं स्थितसंवित् स सूपकृत् । राजपुत्रं छुरिकया सद्यः साहसिकोऽवधीत् ॥२०७॥ तन्मांसैः साधितं शेनं भोजनं च कृतार्घनो । अभुञ्जातामजानन्तौ तत्त्वं राज्ञी नृपस्तथा ॥२०८॥ नीत्वा च सानुतापस्तां रात्रिं राजा ददर्श सः । प्राप्तं कुण्डलहस्तं तं फलभूतिमुपागतम् ॥२०९॥ विभ्रान्तः कुण्डलोद्देशात् च पप्रच्छ तत्क्षणम् । तेनाख्यातस्ववृत्तान्तं पपात च भुवस्तले ॥२१०॥ 'हा पुत्रेति' च चक्रन्द निन्दन् भार्यां सहात्मना । पृष्टश्च सचिवैः सर्वं यथातत्त्वमवर्णयत् ॥२११॥ उवाच चेतदुक्तं सत्यमेतद् फलभूतिना । भद्रकृत् प्राप्नुयाद् भद्रमभद्रं पाप्यभद्रकृत् ॥२१२॥ कन्दुको भित्तिनिक्षिप्त इव प्रतिफलन्मुहुः । आपतत्यात्मनि प्रायो दोषोऽन्यस्य चिकीर्षितः ॥२१३॥ पापाचारेयं दस्याभिर्वृद्धाहृत्या चिकीर्षभिः । स्वपुत्रघातनं कृत्वा प्राप्तं सन्मांसभक्षणम् ॥२१४॥ इत्युक्त्वा बोधयित्वा च मन्त्रिणः स्वानथोमुलाम् । तमद्य फलभूतिं च निज राज्येऽभिषिच्य सः ॥२१५॥ राजा प्रदत्तदानः सत्तपुत्रः पापशुद्धये । सभायः प्रविवेशाग्निं दग्धोऽप्यनुशयाग्निना ॥२१६॥ फलभूतिश्च तद्राज्यं प्राप्य पृथ्वीं शशास सः । एवं भद्रमभद्रं वा कृतमात्मनि कल्प्यते ॥२१७॥