कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५)
महाकवि सोमदेव भट्ट द्वारा
स्रोत: कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५) · बिहार राष्ट्रभाषा परिषद्, पटना · 1960 (उद्गम)
पृष्ठ 455, कुल 876 में से
संदर्भ में पढ़ें४१४ कथासरित्सागर
पिङ्गलिकाब्राह्मणीकथा
अथैकद्युस्तं स वत्सपामुपेत्यास्थानवर्त्तिनम् । नित्योत्क्षिप्तस्य प्रवरः प्रतीहारो व्यजिज्ञपत् ॥३८॥ शिशुद्वयसमुद्भूता ब्राह्मणी कापि दुर्गता । द्वारि स्थिता महाराज देवदर्शनकांक्षिणी ॥३९॥ तच्छ्रुत्वाभ्यनुज्ञाते तत्क्षणं महीभृता । ब्राह्मणी सा विवेशात्र कृशपाण्डुरधूसरा ॥४०॥ माननव विशीर्णेन वाससा विधुरीकृता । दुर्दैव्यनिभावङ्के बिभ्रती बालकावुभौ ॥४१॥ कृतोचितप्रणामा च सा राजानं व्यजिज्ञपत् । ब्राह्मणी कुलजा चाहमीदृशीं दुर्गतिं गता ॥४२॥ दैवायुगपदेतौ च जातौ द्वौ तनयौ मम । तच्च नास्ति मे स्तन्यमतयोर्भोजनं बिना ॥४३॥ तनेह कृपणा माद्य शरणागतवत्सलम् । प्राप्तास्मि देवं शरणं प्रमाणमधुना प्रभुः ॥४४॥ तच्छ्रुत्वा सद्यो राजा स प्रतीहारमादिक्षत् । इयं वासवदत्तायै देव्यै नीत्वाप्यतामिति ॥४५॥ सतद्द कर्मणा स्वेन शुभेनेवाग्रयायिना । नीताऽभून्निकटं देव्याः प्रतीहारेण तेन सा ॥४६॥ राज्ञा विसृष्टां दृष्ट्वा तां प्रतीहारानुपागताम् । देवी वासवदत्ता सा ब्राह्मणीं श्लघ्नतराम् ॥४७॥ युग्मापत्यां च पश्यन्ती दीनामतां व्यचिन्तयत् । अहो वामकबुद्धित्वं किमप्येतत्प्रजापतेः ॥४८॥ अहो ! वस्तुनि मारम्यमहो भक्तिरवस्तुनि । नाद्याप्येकोऽपि मे जाता जातौ त्वस्या यमाविमौ ॥४९॥ एवं सचिन्तयन्ती च सा देवी स्नानकांक्षिणी । ब्राह्मण्याश्चेटिकास्तस्याः स्नपनादौ समादिशत् ॥५०॥ स्नपिता दत्तवस्त्रा च ताभिः स्वादु च भोजिता । ब्राह्मणी गाम्बुसिक्तेव तप्ता भूः समुदश्वसत् ॥५१॥