BharatKosha
कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५)

कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५)

by महाकवि सोमदेव भट्ट

Source: कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५) · बिहार राष्ट्रभाषा परिषद्, पटना · 1960 (origin)

DevanagariHindipublished876 pages

Page 469 of 876

Read in context
Page 469

४३६ कथासरित्सागर इह शान्तिकरो नाम स्थितोऽस्माकं पुरोहितः । गवेषकः स जानंस्तु ववरस्तं भविष्यति ॥१२५॥ इत्युक्त्वा ब्राह्मणीमुक्तां नीत्वा रात्रिं तत्रैव ताम् । देवी शान्तिकरं प्रातरानाय्यापृच्छदन्वयम् ॥१२६॥ उक्तान्वयाय तस्मै च सा सञ्जातसुनिश्चया । इयं स भ्रातृभार्येति ब्राह्मणीं तामदर्शयत् ॥१२७॥ ज्ञातायां च परिज्ञातो ज्ञातबन्धुक्षयोऽथ सः । ब्राह्मणीं भ्रातृभार्यां तां निन्ये शान्तिकरो गृहम् ॥१२८॥ तत्रानुशोच्य पितरौ भ्रातरं च यथोचितम् । आश्वासयामास स तां बालकद्वितयान्विताम् ॥१२९॥ देवी वासवदत्तापि तस्यास्तौ बालकौ सुतौ । पुरोहितौ स्वपुत्रस्य भाविनः पर्यकल्पयत् ॥१३०॥ ज्येष्ठस्तयोः शान्तिसोमो नाम्ना वैश्वानरोऽपरः । कृतस्तथैव देव्या च वितीर्णबहुसम्पदा ॥१३१॥ अन्वस्यैवास्य लोकस्य फलभूमिः स्वकर्मभिः । पुरोर्गमीयमानस्य हेतुमात्रं स्वपौरुषम् ॥१३२॥ यदेत्य लब्धविभवास्तत्र सर्वेऽपि सङ्गताः । बालकौ तौ तयोः सा च माता शान्तिकरश्च सः ॥१३३॥ ततो गच्छत्सु दिवसेष्वेकदा पञ्चभिः सुतैः । सहागतामुपादाय शशवान्कुम्भकारिकाम् ॥१३४॥ दृष्ट्वा स्वमन्दिरे काञ्चिदृष्ट्या वासवदत्तया । सा ब्राह्मणी पिङ्गलिका जगदे पार्श्ववर्तिनी ॥१३५॥ पञ्चैतस्याः सुतोऽद्यापि नैको मे सक्ति दृश्यताम् । पुण्यानामीदृशां पात्रमीदृग्यपि न मादृशी ॥१३६॥ ततः पिङ्गलिकावादीद्देवि दुःखाय जायते । प्रजायं पापभूयिष्ठा दरिद्रेष्वेव भूयसी ॥१३७॥ युष्मादृशेषु जायत यः स कोऽप्युत्तमो भवेत् । तदलं त्वरया प्राप्स्यस्यचिरात्स्वोचितं सुतम् ॥१३८॥ इति पिङ्गलिकाक्तापि सोत्सुका सुतजन्मनि । अभूद् वासवदत्ता सा तच्चिन्तात्राण्तमानसा ॥१३९॥ -