कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५)
महाकवि सोमदेव भट्ट द्वारा
स्रोत: कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५) · बिहार राष्ट्रभाषा परिषद्, पटना · 1960 (उद्गम)
पृष्ठ 47, कुल 876 में से
संदर्भ में पढ़ें१४ कथासरित्सागर ततोऽनुतापेन मया महाव्रतमगृह्यत। अतः कपाल-पाणित्वं श्मशानप्रियता च मे ॥१४॥ किं यत्तन्मे कपालात्म जगद्देवि ! करे स्थितम्। पूर्वोक्ताण्डकपाले द्वे रोदसी¹ परिकीर्तिते ॥१५॥ इत्युक्ते शम्भुना तत्र श्रोष्यामीति सकौतुकम्। स्थितं मयि ततो भूयः पार्वती पतिमभ्यधात् ॥१६॥ स पुष्पदन्त नियतं बाह्यनात्मानुपश्यति। तदाकर्ण्याब्रवीद्देवी मामुद्दिश्य महेश्वरः ॥१७॥ पिशाचो दृश्यते योऽयमद्य यक्षवणानुगः। यक्षो मित्रमभून्नास्य रक्षः स्थूरशिरा इति ॥१८॥ सङ्गतं तन पापेन निरीक्ष्यैनं धनाधिपः। विन्ध्याटव्यां पिशाचत्वमादिशद् धनदेश्वरः ॥१९॥ भ्रात्रास्य दीर्घजङ्घेन पतित्वा पादयोस्ततः। शापान्तं प्रति विज्ञप्तो वदति स्म धनाधिपः ॥२०॥ शापावतीर्णादाकर्ण्य पुष्पदन्तान्महाकथाम्। उक्त्वा माल्यवते तां च शापात्प्राप्ताय मर्त्यताम् ॥२१॥ ताभ्यां गणाभ्यां सहितः शापेनेन तरिष्यसि। इतीह धनदेनास्य शापान्तो विनिश्चितस्तदा ॥२२॥ स्वया च पुष्पदन्तस्य स एवेति स्मरप्रिये। एतच्छ्रुत्वा वचः शम्भोः सहर्षोऽहमिहागतः ॥२३॥ इत्थं मे शापदोषोऽयं पुष्पदन्तागमावधिः। इत्युक्त्वा विरते तस्मिन् काणभूतो च तत्क्षणम् ॥२४॥ स्मृत्वा वररुचिर्जातिं सुप्तोत्थित इवावदत्। स एष पुष्पदन्तोऽहं मत्तस्तां च कथां शृणु ॥२५॥ इत्येवं ग्रन्थसंख्यानि सप्त सप्त महाकथाः। कात्यायनन कथिताः काणभूतिस्ततोऽब्रवीत् ॥२६॥ देव ! रुद्रावतारस्त्वं कोऽन्यो वेत्ति कथामिमाम्। त्वत्प्रसादाद् गतप्रायः स शापो मे शरीरतः ॥२७॥
१ द्यावापृथिव्यौ रोदस्यौ—इत्यमरः।