कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५)
महाकवि सोमदेव भट्ट द्वारा
स्रोत: कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५) · बिहार राष्ट्रभाषा परिषद्, पटना · 1960 (उद्गम)
पृष्ठ 473, कुल 876 में से
संदर्भ में पढ़ें४६ कथासरित्सागर सा बभौ सोरुनेत्रेण मुखेनापाण्डुकान्तिना। क्षणार्ङ्गेनेव गर्भस्थकामप्रेमोपगामिना ॥२॥ आसीनाया पतिस्नेहाद्धतिप्रीती इवागते। रेजतु प्रतिमे तस्या मणिपर्यङ्कपाश्वयो ॥३॥ भाविबिद्याधराधीशगमसेवाधमिष्टदा । मूर्त्ता विद्या इवायाता सख्यस्तो पर्युपासत ॥४॥ विनीलपल्लवश्याममुखौ साथ पयोधरौ। सूनोगर्भभिषेकाय बभार कलशाविव ॥५॥ स्वच्छस्फुरितसञ्छायमणिकुट्टिमशोभिनः । सुलक्षभ्यागता मध्य मन्दिरस्य रराज सा ॥६॥ भाविततनयाक्रान्तिन्नाकम्पितवारिभि । उपत्य सेव्यमानेव समन्ताद्रत्नराशिभिः ॥७॥ तस्या विमानमध्यस्थरत्नोत्था प्रतिमा बभौ। विद्याधरश्रीनमसा प्रणामार्थमिवागता ॥८॥ मन्त्रसाधनसन्ना साधकेन्द्रकथासु च। बभूव सा दोहदिनी प्रसङ्गोपगतासु च ॥९॥ सरसारम्भसङ्गीता विद्याधरवराङ्गनाः। स्वप्ने तामम्बरोत्सङ्गमारुढामुपतस्थिरे ॥१ ०॥ प्रवृत्ता सवितुं साक्षाद्देवाभिमन्ताप सा। नभ क्रीडाविलसितं दृश्यभूतरुकोतुकम् ॥११॥ तं च दोहदमेतस्या देव्या यौगन्धरायणः। यन्त्रमन्त्रेन्द्रजालादिप्रयोगै समपूरयत् ॥१२॥ विजहार च सा तैस्तैः प्रयोगैर्गगनस्थिता। पौरनारीजनोत्दमञ्चोचनान्वयदायिभिः ॥१३॥ एकदा वामवन्धायास्तस्यादघ समजायत। हृदि विद्याधरोदारकथाश्रवणकौतुकम् ॥१४॥ ततस्तयायितो देव्या तत्र यौगन्धरायणः। तस्या सर्वेषु गुह्यम्पु भिजगाद कथामिमाम् ॥१५॥