कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५)
महाकवि सोमदेव भट्ट द्वारा
स्रोत: कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५) · बिहार राष्ट्रभाषा परिषद्, पटना · 1960 (उद्गम)
पृष्ठ 477, कुल 876 में से
संदर्भ में पढ़ें४३४ कथासरित्सागरे सदैव कल्पविटपी कामदो योऽस्ति न स चेत्। परार्थं विनियुज्येत तदाप्त तत्फलं भवेत् ॥२९॥ तत्सत्वाहं करोमीह यथैतस्य समृद्धिभिः। अदारिद्रा भवेदेषा सर्वापिजनसंहतिः ॥३०॥ इति विज्ञाप्य पितरं तदनुज्ञामवाप्य सः। जीमूतवाहनो गत्वा तं कल्पद्रुममब्रवीत् ॥३१॥ देव ! त्वं शश्वदस्माकमभीष्टफलदायकः। तदेकमिदमद्य त्वं मम पूरय वाञ्छितम् ॥३२॥ अदारिद्रां कुरुष्वैतां पृथिवीमखिलां सखे। स्वस्त्यस्तु ते प्रवृत्तोऽसि लोकाय द्रविणार्थिने ॥३३॥ इत्युक्तस्तेन धीरेण कल्पवृक्षो ववर्ष सः। कनकं भूतले भूरि ननन्दुश्चाखिला प्रजाः ॥३४॥ दयालुर्वोधिसत्त्वांशः कोऽन्यो जीमूतवाहनात्। शक्नुयादर्थिसात्कर्त्तुमपि कल्पद्रुमं कृती ॥३५॥ इति ज्ञातानुरागासु ततो दिक्षु विदिक्ष्वपि। जीमूतवाहनस्योच्चैः पप्रथे विशदं यशः ॥३६॥ ततं पुत्रप्रथावर्द्धमूलं राज्यं समत्सराः। दृष्ट्वा जीमूतकेतोस्तद्गोत्रजा विकृतिं ययुः ॥३७॥ दानोपयुक्तसत्कल्पवृक्षमुक्तास्पदं च तत्। मेनिरे निष्प्रभावत्वाज्जेतुं सुकरमेव ते ॥३८॥ ततः सम्भूय युद्धाय कृतबुद्धिषु तेषु च। पितरं तमुवाचेदं धीरो जीमूतवाहनः ॥३९॥ यथा शरीरमेवेदं जलवुद्बुदसन्निभम्। प्रवातदीपचपलास्तथा कस्य कृते श्रियः ॥४०॥ ता अप्यन्योपमर्द्देन मनस्वी कोऽभिवाञ्छति। तस्मात्तात ! मया नैव योद्धव्यं गोत्रजैः सह ॥४१॥ राज्यं त्यक्त्वा तु गन्तव्यमितः क्वापि वनं मया ॥ मास्तां कृपणा एते मा भूत्स्वकुलसंक्षयः ॥४२॥ इत्युक्तवन्तं जीमूतवाहनं स पिता ततः। जीमूतकेतुरप्येवं जगाद कृतनिश्चयः ॥४३॥