BharatKosha
कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५)

कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५)

by महाकवि सोमदेव भट्ट

Source: कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५) · बिहार राष्ट्रभाषा परिषद्, पटना · 1960 (origin)

DevanagariHindipublished876 pages

Page 509 of 876

Read in context
Page 509

४६६ कथासरित्सागर भस्माङ्गरागसितया क्षेत्तरीकृतचन्द्रया। पिङ्गङ्गजटामूर्ध्न्या क्षोभितं सूरुहस्तया ॥४॥ स च मामभ्युपेत्येव सानुकम्प इवाबदत् । पुत्रि ! गर्भकृते चिन्ता न कार्या काचन त्वया ॥५॥ अह तर्बेनं रक्षामि दत्तो ह्येष मयैव ते । किञ्चायच्छृणु वक्ष्याव तव प्रत्ययकारणम् ॥६॥ श्व कापि नारी विज्ञाप्तिहेतोर्युष्मानुपैष्यति । अवष्टभ्यैव साक्षेपमाक्रयन्ती निज पतिम् ॥७॥ सा च दुश्चारिणी योषित् स्वबान्धवबलात् पतिम् । त घातयितुमिच्छन्ती सब मिथ्या ब्रवीति तत् ॥८॥ त्व चात्र पुत्रि ! वत्सस्य पूर्व विज्ञापयस्तया । तस्या सकाशात्स यथा साधुर्मुच्येत कुस्त्रिय ॥९॥ इत्यादिश्य गते तस्मिन्नन्तर्धान महार्मान । प्रबुद्धा सहसैवाह विभाता च विभावरी ॥१ ॥ एवमुक्ते तया देव्या शर्वानुग्रहवादिन । तत्रासन्विसिमता सर्वे संवादापेक्षिमानसा ॥११॥ तस्मिन्नव क्षण चात्र प्रविश्यार्त नुकम्पिनम् । वत्सराज प्रतीहारमुस्त्याऽकस्माद्व्यजिज्ञपत् ॥१२॥ आगता देव विज्ञप्त्यै कापि स्त्री बान्धवैर्वृता। पञ्चपुत्रान् गृहीत्वा स्वमाक्षिप्य विषण्ण पतिम् ॥१३॥ तच्छ्रुत्वा नृपतिर्देवीस्वप्नसम्वादविस्मित । प्रवेश्यतामिहैवेति प्रतीहारं तमादिशत् ॥१४॥ स्वप्नसत्यत्वसञ्जातमत्पुत्रप्राप्तिनिश्चया । देवी वासवदत्तापि सा सम्प्राप परां मुदम् ॥१५॥ अथ द्वारोन्मुख सर्वेरीक्ष्यमाणा सकौतुकम् । प्रतीहारानुया योषिद् भर्तृयुक्ता विवेश सा ॥१६॥ प्रविश्याश्रितवेन्था च यथाक्रमकृतानति । मध संसदि राजानं सदेवीक व्यजिज्ञपत् ॥१७॥ मय निरपराधाया मम भर्त्ता मदश्रपि । न प्रयच्छत्यनाथाया भोजनाच्छादनादिकम् ॥१८॥