BharatKosha
कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५)

कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५)

by महाकवि सोमदेव भट्ट

Source: कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५) · बिहार राष्ट्रभाषा परिषद्, पटना · 1960 (origin)

DevanagariHindipublished876 pages

Page 519 of 876

Read in context
Page 519

२४६ कथासरित्सागर बभ्रमुस्तूर्यनिर्नादा नभस्तो मन्दिरोद्गताः । विद्याधरेभ्यः सर्वेभ्यो राजनभय शंसितुम् ॥७७॥ सौधाग्रेष्वनिलोद्धूताः शोणरागाः स्वकान्तिभिः । पताका अपि सिन्दूरमयोममकिरन्निव ॥७८॥ भुवि साङ्गस्मरोत्पत्तितोषान्निव सुराङ्गनाः । समागताः प्रतिपदं ननर्तुर्वारयोषितः ॥७९॥ अदृश्यत च सर्वा सा समानविभवा पुरी । राज्ञो महोत्सवात् प्राप्तैर्नववस्त्रविभूषणैः ॥८०॥ तदा हर्षाभ्युपे तस्मिन्खर्वत्यर्थ्यनुजीविषु । कोषादूतं न तन्मध्यो दधौ कश्चन रिक्तताम् ॥८१॥ मङ्गस्यपूर्वा स्वाचारदक्षिणा नर्त्तितापरा । मत्स्रामृतोत्तरास्तैस्तैः सुरक्ष्मिभिरधिष्ठिता ॥८२॥ प्रसृतातोद्यनिर्ह्रादा साक्षाद्दिव इवाखिला । समन्तादाययश्चात्र सामन्तान्तःपुराङ्गनाः ॥८३॥ चेष्टा नृत्तमयी तत्र पूर्णपात्रमयः वचः । व्यवहारो महात्यागमयस्तूर्यमयो ध्वनिः ॥८४॥ चीनपिष्टमयोमोदकचारुचक्रमयी च भूः । मानन्दमयी सर्वस्यामपि तस्यामभूत्पुरि ॥८५॥ एव महोत्सवास्तत्र भूरिवासर्वर्धितः । निर्वर्त्तते स्म न सम पूर्णे पौरमनोरथः ॥८६॥ सोऽपि व्रजत्सु दिवसेष्वथ राजपुत्रो वृद्धिं धित्युः प्रतिपदिन्दुरिवा जगाम । पित्रा यथाविधिनिवेदितदिव्यवाणी निर्दिष्टपूर्वनरवाहनदत्तनाम्ना ॥८७॥ यानि स्फुर मसृणमुग्धमुखप्रभाणि द्वित्राणि यानि च लघुकलनाद्दुराणि । तानि स्मरन्ति ददतो वदतश्च तस्य दृष्ट्वा निशम्य च पदानि पिता तुतोष ॥८८॥ अथ तस्म मन्त्रिवरा स्वसुतानानीय राजपुत्राय । शिशवे शिशून् महीपतिहृदयानन्दान् समर्पयामासुः ॥८९॥