भारतकोश
कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५)

कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५)

महाकवि सोमदेव भट्ट द्वारा

स्रोत: कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५) · बिहार राष्ट्रभाषा परिषद्, पटना · 1960 (उद्गम)

DevanagariHindipublished876 पृष्ठ

पृष्ठ 527, कुल 876 में से

संदर्भ में पढ़ें
पृष्ठ 527

४८४ कथासरित्सागर वर्धमाना सहैवैतत्समानोद्वाहचिन्तया। एषा कनकरेखा मे हृदयं देवि बाधते ॥२४॥ स्थानप्राप्तिविहीना हि गीतिवत् कुलकन्यका। उद्वेजिनी परस्यापि श्रूयमाणव कणयो ॥२५॥ विद्येव कन्यका मोहादपात्रे प्रतिपादिता। यशसे न न धर्माय जातानुशयाय तु ॥२६॥ सत्कस्मै दीयतां ह्येषा मया नृपतये सुता। कोऽस्याः समः स्यादिति मे चिन्ता देवि १ गरीयसी ॥२७॥ तच्छ्रुत्वा सा विहस्यैव बभाषे कनकप्रभा। स्वमेवमात्थ कन्या तु नेच्छत्युद्वाहमेव सा ॥२८॥ अद्यैव मर्मणा सा हि कृतकृत्रिमपुत्रका। वत्स कदा विवाहं ते द्रक्ष्यामीत्युदिता मया ॥२९॥ सा तच्छ्रुत्वैव साक्षेपमथ मां प्रत्यभाषत। मा मवमम्ब दातव्या नैव कस्मैचिदप्यहम् ॥३०॥ मद्वियोगो न भविता कन्यावास्मि सुशोभना। अन्यथा मां मृतां विद्धि किञ्चिदस्त्यत्र कारणम् ॥३१॥ एवं तयोक्ता त्वत्पार्श्वं राजन् विग्नाहमागता । तन्निषिद्धविवाहायाः का वरस्य विचारणा ॥३२॥ इति राज्ञीमुखाच्छ्रुत्वा समुद्विग्नोऽथ स नृपतिः। कन्याकान्तःपुरं गत्वा तामभाषीत्तदा सुताम् ॥३३॥ प्रार्थयन्तेऽपि तपसा यं सुरासुरकन्यकाः। प्रसूंस्तथा कथं वत्से स निषिद्धः किल त्वया ॥३४॥ एतत्पितुर्वचः श्रुत्वा भूतलन्यस्तलोचना। तदा कनकरेखा सा निजगाद नृपात्मजा ॥३५॥ तात नैवेप्सितस्तावद् विवाहो मम साम्प्रतम्। ततातस्यापि किं तन कार्यं यश्चात्र वो ग्रहः ॥३६॥ इत्युक्तः स तया राजा पृष्ट्वा धीमतां वरः। परोपकारी च पुनरेवमेतामभाषत ॥३७॥ १ व्याकुला।