कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५)
महाकवि सोमदेव भट्ट द्वारा
स्रोत: कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५) · बिहार राष्ट्रभाषा परिषद्, पटना · 1960 (उद्गम)
पृष्ठ 531, कुल 876 में से
संदर्भ में पढ़ें४८६ कथासरित्सागर
० यादानादृते पुत्रि ! किं स्यात् किल्बषशान्तये । न च बन्धुपराधीना कन्या स्वातन्त्र्यमर्हति ॥३८॥ जातैव हि परस्यार्थे कन्यका नाम रक्ष्यते । बाल्यावृते विना भर्त्तृ कीदृक्तम्या पितुर्गृहम् ॥३९॥ ऋतुमत्य हि कन्यायां बान्धवा मान्त्यधोगतिम् । वृषली' सा वरश्यास्या वृषलीपति रुच्यते ॥४०॥ इति तेनोदिता पित्रा राजपुत्री मनोगताम् । वाचं कनकरेखा सा तत्क्षण ममुवरयत् ॥४१॥ यद्येव तात तद्येन विप्रेण क्षत्रियेण वा । दृष्टा कनकपुर्याख्या नगरी कृतिना किर ॥४२॥ तस्म त्वयाहं दातव्या स मे भर्त्ता भविष्यति । नान्यथा तात मिथ्यैव कर्त्तव्या मे कवर्षना ॥४३॥ एव तयोक्ते सुतया स राजा समचिन्तयत् । विष्टमोद्वाहस्य तसावत् प्रसङ्गोऽङ्गीकृतोऽनया ॥४४॥ नूनं च कारणोत्पन्ना देवीय कापि मवगृहे । इतरकथं विजानाति बाला भूत्वान्यथा दृसौ ॥४५॥ इति सञ्चिन्त्य तत्कालं तमत्युक्त्वा च तां सुताम् । उत्थाय विनवस्तंभ्य स चकार महीपति ॥४६॥ अन्यद्युरास्थानगतो जगाद स च पार्श्वगान् । दृष्टा कनकपुर्याख्या पुरी युष्मासु केनचित् ॥४७॥ येन दृष्टा च सा तस्मै विप्राय क्षत्रियाय वा । मया कनकरेखा च यौवराज्यं च दीयते ॥४८॥ श्रुतापि नैव सास्माभिर्दर्शने वेव का कथा । इति ते चावदन् सर्वे अन्योन्याननदर्शिन ॥४९॥ ततो राजा प्रतीहारमानीयाविशति स्म सः । गच्छ भ्रमय कुरम्मेऽथ पुरं पटहघोपणाम् ॥५०॥ जानीहि यदि केनापि दृष्टा सा नगरी न वा । इत्यादिष्ट प्रतीहार स तद्यति विनिर्ययौ ॥५१॥
१ शूद्री।