भारतकोश
कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५)

कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५)

महाकवि सोमदेव भट्ट द्वारा

स्रोत: कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५) · बिहार राष्ट्रभाषा परिषद्, पटना · 1960 (उद्गम)

DevanagariHindipublished876 पृष्ठ

पृष्ठ 541, कुल 876 में से

संदर्भ में पढ़ें
पृष्ठ 541

४२४ कथासरित्सागर सा च प्रभातकार्याद्युनयन् मुखालिपत्। अवीचि¹कर्ममालपसूत्रपातमिवाचरन् ॥९३॥ सरित्तोये च स चिरं निमज्ज्यासीदवाङ्मुखः। कुकर्मजामिवाभ्यस्यन् भविष्यन्तीमधोगतिम् ॥९४॥ स्नानोत्थितोऽर्काभिमुखस्तस्थावूर्ध्वं चिरं च सः। शूलाधिरोपणौचित्यमात्मनो दर्शयन्निव ॥९५॥ ततो देवाग्रतो गत्वा बद्धकूर्चकरो जपन्। आस्त पद्मासनासीनः सदम्भश्चतुराननः² ॥९६॥ अन्तरा हृदयानीव साधूनां कतवेन सः। स्वच्छान्याहृत्य पुष्पाणि पुरारिं पर्यपूजयत् ॥९७॥ कृतपूजश्च भूयोऽपि मिथ्याजपपरोऽभवत्। दत्तावधानः कुसृतिष्विव³ ध्यानं सतान सः ॥९८॥ अपराह्णे च भिक्षार्थी कृष्णसाराजिनाम्बरः। पुरि तद्वञ्चनामायाकटाक्ष इव सोऽभ्रमत् ॥९९॥ आदाय द्विजगेहेभ्यो मौनी भिक्षात्रयं ततः। सदण्डाजिनकञ्चक्रे त्रिसत्यमिव सञ्चरन् ॥१००॥ भागं ददौ च काकेभ्यो भागमभ्यागताय च। भागेन दम्भबीजेन कुक्षिमस्रामपूरयत् ॥१०१॥ पुमः स सर्वपापानि निजानि गणयन्निव। जपन्नावर्त्तयामास चिरं मिथ्याक्षमालिकाम् ॥१०२॥ रजयामद्वितीयेन च स तस्यो मठान्तरे। अपि मूढ्मानि शेक्य तस्वस्थानानि पित्तयन् ॥१०३॥ एवं प्रतिदिनं कुर्वन् पट्टं व्याजमयं शत। स तत्रावर्जयामास नगरीस्वामिनां मनः ॥१०४॥ अहो तपस्वी शान्तोऽयमिति ख्यातिञ्च सर्वतः। उत्पादत तत्राम्य भक्तिगम्भीरिए जनः ॥१०५॥ १ अवीचिर्नाम नरकः, तद्भेदोस्तरमवीचिमहारौरवरौरवाः—इत्यमरः। २ धूर्तरूपम् चतुरं आननं यस्य सः। यस्य मुखं एव चातुर्यं प्रतिभामने रक्तः। ३ कुसृतिः—शाठ्यम्।