कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५)
महाकवि सोमदेव भट्ट द्वारा
स्रोत: कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५) · बिहार राष्ट्रभाषा परिषद्, पटना · 1960 (उद्गम)
पृष्ठ 543, कुल 876 में से
संदर्भ में पढ़ें४९६ कथासरित्सागर तावच्च स द्वितीयोऽस्य १ सक्ता चारमुखम् तम् । विज्ञाय माधवोऽप्येतन्नगरीं प्रविवेश ताम् ॥१०६॥ गृहीत्वा वसतिं चात्र दूरे देवकुलात्सरे । स राजपुत्रच्छन्ना सन् स्नातुं क्षिप्रातटं ययौ ॥१०७॥ स्नात्वा सानुचरो दृष्ट्वा ददर्श तपस्तत्परम् । तं शिवं परमश्रद्धो निपपातास्य पादयोः ॥१०८॥ जगाद च जनस्याग्रे नास्तीदृक्तपसोऽपरः । असकृद्धि मया दृष्टस्तीर्थान्येष भ्रमन्निति ॥१०९॥ शिवस्तु तं विलोक्यापि दृप्तस्तम्भितकन्धरः । तूष्णीमासीत्ततः सोऽपि माधवो वसतिं ययौ ॥११०॥ रात्रौ मिलित्वा चक्रतुर्भुक्त्वा पीत्वा च तावुभौ । मन्त्रयामासतुः शेषं कर्तव्यं यवतः परम् ॥१११॥ यामे च पश्चिमे स्वरमागात् स्वमठिकां शिवः । माधवोऽपि प्रभाते स्वं धूर्तमेकं समादिशत् ॥११२॥ एतद् गृहीत्वा गच्छ त्वं वस्त्रयुग्म मुपायनम् । शङ्करस्वामिनः पार्श्वमिह राजपुरोधसः ॥११३॥ राजपुत्रः परामूतो माधवो नाम गोत्रजः । पित्र्यं बहुगृहीत्वार्थमागतो दक्षिणापथात् ॥११४॥ समं कतिपयैरस्य राजपुत्रैरनुव्रतः । स चह युष्मदीयस्य राज्ञः सर्वां करिष्यति ॥११५॥ येन त्वद्दर्शनायाहं प्रेषितो यशसां निधे । इति त्वया सविनयं स च वाच्यः पुरोहितः ॥११६॥ एव स माधवेनोक्तो धूर्तः सम्प्रेषितस्तथा । जगामोपायनकरो गृहं तस्य पुरोधसः ॥११७॥ उपेत्यावसरे दत्त्वा प्राभृतं बिजने च तत् । तस्मै माधवसन्देशं शशंसि स्म यथोचितम् ॥११८॥ सो ऽप्युपायनलोभात्तन्मूढचे कल्पितायतिः । उपप्रदान लििप्सूनामङ्क ३ ग्याश्चर्यजोपभम् ॥११९॥ १ वणिग्वेशमभिनिर्मितं चीतं प्राचारकं चेति बुद्धम् । २ प्राभृतम् = उपायनम् । 'भेंट' इति भाषायाम् । ३ 'भेंट' 'घूस' इति प्रसिद्धम् ।