भारतकोश
कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५)

कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५)

महाकवि सोमदेव भट्ट द्वारा

स्रोत: कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५) · बिहार राष्ट्रभाषा परिषद्, पटना · 1960 (उद्गम)

DevanagariHindipublished876 पृष्ठ

पृष्ठ 545, कुल 876 में से

संदर्भ में पढ़ें
पृष्ठ 545

४१८ कथासरित्सागर तत प्रयागते तस्मिन्धूर्तेऽन्येषु स माधव । लब्धावकाशस्तमगात्स्वय द्रष्टु पुरोहितम् ॥१२०॥ धृतकार्पटिकाकारे राजपुत्रापदेशिभि । वृत पार्श्वचरैरातत्काव्यसण्डकलाञ्छन ॥१२१॥ पुरोगावेदितदनन्यभ्यगात्स पुरोहितम् । तेनाप्यभ्युद्गमानन्दस्वागतैरभ्यनन्दत ॥१२२॥ सततस्तेन सह स्थित्वा कथालापै क्षण च स । आययौ तदनुज्ञातो माधवो वसति निजाम् ॥१२३॥ द्वितीयेऽह्नि पुन प्रद्य प्रभूत वस्त्रयोर्युगम् । भूयोऽपि तमुपागच्छ पुरोहितमुवाच च ॥१२४॥ परिवारानुरोधेन किल सवाशिनो वयम् । तेन त्वमाधितोऽस्माभिरर्थमात्रास्ति न पुन ॥१२५॥ तच्छ्रुत्वा प्राप्तिमाशङ्क्य तस्मात्सोऽथ पुरोहित । प्रतिशुश्राव¹ तत्सस्मै माधवाय समीहितम् ॥१२६॥ क्षणाच्च गत्वा राजानमेतदर्थ व्यजिज्ञपत् । तद्गौरवेण राजापि तत्तथा प्रत्यपद्यत ॥१२७॥ अपरेऽह्नि च नीत्वा त माधव सपरिच्छदम् । नृपायादर्शयत्तस्मै स पुरोधा सगौरवम् ॥१२८॥ नृपोऽपि माधव दृष्ट्वा राजपुत्रोपमाकृतिम् । आदरेणानुजग्राह वृत्ति चास्य प्रदिष्टवान् ॥१२९॥ ततोऽत्र सवमानस्त नृप तस्मै स माधव । रात्रौ रात्रौ च मन्त्राय शिवेम समगच्छत ॥१३०॥ इहैव वस मद्गेह इति तेन पुरोधसा । सोऽभितश्चामवत्स्तोमादुपचारोपजीविना ॥१३१॥ तत सहचरी साक तस्यवाशिश्रियद् गृहम् । विनाशहेतुर्वासाय मद्गु स्कन्ध तरोरिव ॥१३२॥ कृत्वा कृत्रिममाणिक्यमयाभरणभृंतम् । भाण्ड च स्थापयामास तदीये कोषवेश्मनि ॥१३३॥ १ स्वीकार । २ 'विनाशहेतुर्वासोऽयमासीत् स्कन्धे तरोरिव' इति पुस्तकान्तरे पाठः। 'मद्गुः पानीयकाकिका' जलकुक्कुट इति प्रसिद्धः। मद्गुर्यस्मिन्व्रक्षे निवसति तमेवाश्वत्थं विनाशयति तथैव माधवोऽपि पुरोहितविनाशाय तद्गृहेऽवस्थितः।

कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५) · पृष्ठ 545, कुल 876 में से · BharatKosha