कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५)
महाकवि सोमदेव भट्ट द्वारा
स्रोत: कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५) · बिहार राष्ट्रभाषा परिषद्, पटना · 1960 (उद्गम)
पृष्ठ 559, कुल 876 में से
संदर्भ में पढ़ें५१२ कथासरित्सागर विप्रांश्चापारुहंस्त्रासात् दृष्ट्वैव मथोपरि। प्रवादमोहित प्रायो न विचारक्षमो जनः॥२१९॥ अथ द्विजान् हरस्वामी तानेकमधःस्थितः। नामग्राहं समाहूय स जगादोपरि स्थितान्॥२२०॥ कोऽयं मोहोऽद्य वो विप्रा नावेक्षध्वं परस्परम्। कियन्तो बालकाः कस्य मया कुत्र च भक्षिताः॥२२१॥ तच्छ्रुत्वा यावदन्योन्यं विप्रा परिमृशन्ति ते। तावत्सर्वेऽपि सर्वेषां जीवन्तो बालका स्थिताः॥२२२॥ क्रमाभियुक्ताश्चान्येऽपि पौरास्तत्र तथैव तत्। प्रत्यपद्यन्त सर्वेऽपि सविप्रवणिजोऽब्रुवन्॥२२३॥ अहो विमूढैरस्माभिः साधुर्मिथ्यैव दूषितः। जीवन्ति बालाः सर्वेषां तत्कस्यानेन भक्षिताः॥२२४॥ इत्युक्तवत्सु सर्वेषु हरस्वामी तथैव सः। सम्पन्नशुद्धिर्नगरात् गन्तुं प्रवृवृते ततः॥२२५॥ दुर्जनोत्पादितापद्यविरक्तीकृतचेतसा । मविवेकिनि दुर्देशे रतिः का हि मनस्विनः॥२२६॥ ततो वणिग्भिर्विप्रैश्च प्रार्थितश्चरणानतैः। कथञ्चित् स हरस्वामी तत्र वस्तुममन्यत॥२२७॥ इत्थं सञ्चरितावलोकनमसद्विशेषवाञ्छिता मिथ्यावूपजमेवमेव ददति प्रायः सतां दुर्जनाः। किञ्चित्कि पुनराप्नुवन्ति यदि ते तत्रावकाशं ममाग् द्रष्टुं तज्ज्वलितज्वाले निपतितं प्राप्याग्मघारोत्करम्॥२२८॥ तस्माद् विद्यालयमितुमच्छसि मां यदि त्वं वत्से ! वर्तुमर्हसि नूतनयौवनऽस्मिन्। न स्वेच्छमर्हसि चिरं खलु कन्यकात्वं भासयितुं सुलभदुर्भनपुष्प्रवादम्॥२२९॥ इत्युक्ता नरपतिना पित्रा प्रायेण कनकरेखा सा। निजगाद राजतनया तमवस्थितनिश्चया भूयः॥२३०॥ दृष्ट्वा कनकपुरीं सा विप्रेण क्षत्रियण वा यतः। तर्हि तमाशु गवेषय तस्मै मां देहि भाषितं हि मया॥२३१॥