भारतकोश
कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५)

कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५)

महाकवि सोमदेव भट्ट द्वारा

स्रोत: कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५) · बिहार राष्ट्रभाषा परिषद्, पटना · 1960 (उद्गम)

DevanagariHindipublished876 पृष्ठ

पृष्ठ 561, कुल 876 में से

संदर्भ में पढ़ें
पृष्ठ 561

५१४ कथासरित्सागर तच्छ्रुत्वा दृढनिश्चयां विगणयञ्जातिस्मरां तां सुताम् नास्याश्चायमभीष्टमर्थघटने पश्यन्नुपायक्रमम्। देशे सत्र ततः प्रभृत्यनुदिनं प्रष्टुं नवागन्तुकान्। भूयो भूमिपतिः स नित्यपटहप्रोद्घोषणामादिशत् ॥२१२॥ ‘यो विप्रः क्षत्रियो वा ननु कनकपुरीं दृष्टवान्सोऽभिधत्तां तस्मै राजा किल स्वां वितरति तनयां यौवराज्येन साकम्’ । सर्वत्राघोष्यतैव पुनरपि पटहानन्तरं नाप दास्य श्च त्वेकः कोऽपि साक्षात्कृतकनकपुरीदर्शनो लभ्यते स्म॥२१३॥ इति महाकविश्रीसोमदेवभट्टविरचिते कथासरित्सागरे चतुर्दारिकालम्बके प्रथमस्तरङ्गः।

द्वितीयस्तरङ्गः कनकपुरीदर्शनार्थं शक्तिदेवस्य प्रस्थानम् अत्रान्तरे द्विजयुवा शक्तिदेवः स दुर्मनाः। अचिन्तयदभिप्रतराजकन्यावमानितः ॥१॥ मयेह मिथ्याकनकपुरीदर्शनवादिना। विमानना परं प्राप्ता न त्वसौ राजकन्यका॥२॥ तदेतत्प्राप्तये तावद् भ्रमणीया मही मया। यावत्सा नगरी दृष्टा प्राणैरपि गतैर्मम॥३॥ तां हि दृष्ट्वा पुरीमस्य तत्पणोपार्जितां न चेत्। रुन्धेय राजतनयामहं किं जीवितेन तत् ॥४॥ एवं कृतप्रतिज्ञः सन् वर्धमानपुरात्ततः। दक्षिणां दिशमारभ्य स प्रतस्थे स ततो द्विजः ॥५॥ क्रमञ्च गच्छंश्च प्राप गोव्यं विन्ध्यमहाटवीम्। विवेश च निजां वाञ्छामिव तां गहनायताम् ॥६॥ तस्यां च मारुताधूतमुदुपाञ्चत्पल्लवैः। वीजयन्त्यामिवात्मानं तज्जमश्रकरोस्तरः ॥७॥ भूरिखोरपशभूतिदुःखान्दि दिवानिशम् । श्रोदन्यो तीव्रमद्वान्द्रिह्व्यमानमृपारवः ॥८॥